________________ सूत्र 7 ] स्वोपज्ञभाष्य--टीकालङ्कृतम् मग्रहणेन प्रादुर्भावादयो विशेष्यन्ते / अनादिना परिणामेन विशिष्टो यः प्रादुर्भावः आत्मलाभो वस्तुनस्तथा सन्निवेशः, आदिमत्परिणामविशिष्टश्च प्रादर्भावः पर्यायान्तरोत्पाद इति / तिरोभावस्तु सन्तानरूपेणावस्थितो वैससिको विनाश एवादिलक्षणः, स्थितिघ्राव्यभनादिपरिणामः / अन्यता सवेद्रव्याणां परस्परं भेद्रपरिणामोऽनादिः, अनुग्रहः परस्परोपकारादिलक्षणो जीवानां, विनाशस्तु प्रायोगिक आदिमान् परिणामः / एवमेष जगस्वभावः पुनः पुनरालोच्यमानः संवेगाय सम्पद्यते / कथं पुनर्जगत्स्वभावचिन्ता संवेगानुगुणेति ? / उच्यते-जगत्स्वभावं चेतनावेतनत्वेन विभज्य चेतनानां सदसच्चेष्टितफलं विभज्यते, तत्सुपरिनिश्चितमतिरहिंसादिचेष्टिता मिहपरलोकोत्पन्नैकान्तहितानुष्ठायिनां तत्फलावाप्तिं च मनुजसुरनारकेषु तियक्षु च यथावद् विचिन्त्य सारासारतया मुक्तिमार्गप्रवणो भवति / अज्ञानहिंसादिचेष्टितानां च संसारानन्तफलदोषदेर्शनात् तदुच्छेदार्थमहर्निशं संवेगमेव भावयति / अचेतनानामपि नित्यानित्यमूर्तामूर्तस्पर्शगन्धरूपशब्दसंस्थानादिपरिणामशुभाशुभकल्पनानामनायसन्तानै कस्वाभाव्यमनुपश्यन्नरक्तमूढद्विष्टो जगदन्यायन्यायचेष्टितानि भीतिमन्त्यभयभूतानि च भावयन संवेगभाग् भवतीति // कायस्वभाव इत्यादि / कायस्वभावो जन्मप्रभृत्यनित्यता-विनश्वरत्वं बालकुमारयौवनमध्यमस्थविरावस्थाः पूर्वपूर्वावस्थोपमर्दैनोत्तरोत्तरावस्थास्वरूपं प्रतिलभन्ते, अतः परिणामानित्यतां शरीरस्य भावयेद् यावदायुषः परिसमाप्तिः / ततः क्रोधेनाग्निना वा सारमेयशकुन्तसम्पातेन वा वातातपशोषणेन वा विघटितः शरीराकारपरिणतपुद्गलप्रवन्धः सद्यो द्वथणुकादिस्कन्धभेदेन परमाणुपर्यवसानेन विभक्तोऽनित्य इति व्यपदिश्यते। सुचिरमपि चैष लालितः पालि :: कुङ्कुमागुरुकपूरकस्तूरिकानुलेपनादिमृष्टान्नपानवसनाच्छादनादिना चाकाण्ड एव ध्वंसते / भावयतश्चैवं शरीरे निर्ममता भवति / ततश्च संवेगवैराग्ये इति / अपरः कायस्वभावाद् दुःखहेतुत्वं बाधालक्षणं दुःखम् / सा च बाधा शरीरस्वान्ताश्रया / ततश्च यावच्छरीरं तावदपि दुःखोपभोगस्तदाश्रयो न व्यवच्छिद्यते / पुद्गलात्मप्रदेशानामन्योन्यानुगतौ क्षीरवारिणोरिवाविभागे सति आत्मनः पुद्गलनिमित्तो दुःखानुभवः / ततश्च दुःखहेतुतां भावयन्नात्यन्तिकोच्छेदायास्य दग्धशरीरकस्यायतते / तथाऽन्या निःस.रता कायस्वभावः त्वरमांसादियटलभेदेनोद्वेष्टयमानेऽप्यमुष्मिन् शरीरके रम्भागर्भ इव मेदोऽस्थिपञ्जरान्त्रजललसिकामूत्रशकृत्कफांपत्तमज्जादिसञ्चये न काचित् सारमात्रोपलभ्यते प्रधानतासारकनकरत्नादिवत् तदभावादयं निःसारो लेभे पुकाष्ठवत कायकलिरकालभङ्गुर इत्येवं भावयतः शरीरेऽभिषङ्गो न भवतीति / तथाऽशुचित्वं कायस्वभावः / अशुचित्वं लोकप्रतीतं, तच्च काय एव भूयसा दृश्यते, गर्भव्युत्क्रान्तिमानुपशरीरस्य तावन्मौलं कारणमसृग्रेतसी / ततस्तयोरेव कललाबुदमांसपेश्यादिपरिणामः 1 'पुनर्जीवस्वभाव' इति क-पाठः / 2 'दर्शी तदु' इति ऊ-पाठः / 3 'चोपलालितः' इति ग-पाठः /