________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 स्वभावौ तौ भावयेत् / तत्र जगत्स्वभावस्तावत् प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिध दौभाग्यदौर्मनस्यवधवन्धनाभियोगासमाधिदुःखसंवेदनलक्षणः / तथा जगत्स्वभावः “माता भूत्वा दुहिता"(प्रशमरतो, श्लो० 156 ) इत्यादि / तथा सर्वस्थानान्यशाश्वतानि संसारिणां संसार इति / धर्मादिद्रव्याणां च परिणामित्वादनन्तपर्यायरूपेण गमनात तेष्वपि परिणामानित्यतां भावयेत् / कायस्वभावोऽपि पितृमात्रोरोजःशुक्रमुभयमेकीभूतं गर्भजानां प्राणिनां शरीरतया परिणमत इत्यादिलक्षणः / सम्मूर्छनोपपातजन्मनां तूत्पत्तिदेशावगाढस्कन्धादान निर्माणानि वषि कायस्वभावः भवन्त्यशुभपरिणामभाञ्जि नानाकाराणि परिशटनोपचितिधर्मकत्वाद् विनश्वराणीत्येवं लक्षणः कायस्वभावः / तावेतौ जगत्कायस्वभावी किमर्थ भावनीयावित्याह-संवेगवैराग्यार्थम् / यथासंख्याकेन सम्बन्धः। जगत्स्वभावं भावयेत् संवेगाथै, कायस्वभावं वैराग्यार्थमिति / संवेगाय वैराग्याय च (संवेग )वैराग्यार्थम् , 'चतुर्थी तदर्थार्थ' (पा० अ० 2, पा० 1, मू० 36) इति समासः। तत्र संवेगः संसारभीरुत्वादिलक्षणः / वैराग्यं शरीरनिष्प्रतिकर्मतादिलक्षणम् / सूत्रितमेवार्थ भाष्येण स्पष्टयन्नाहभा०-जगत्कायस्वभावौ च भावयेत् संवेगवैराग्यार्थम् / तत्र जगत्स्व ... भावो द्रव्याणामनाद्यादिमत्परिणामयुक्ताः प्रादुर्भावतिरोभावसूत्रगतशब्दाना स्थित्यन्यतानुग्रहविनाशाः। कायस्वभावोनित्यता दुःखहेतुत्वं निःसारताशुचित्वमिति // एवं ह्यस्य भावयतः संवेगो वैराग्यं च भवति / तत्र संवेगो नाम संसारभीरुत्वमारम्भपरिग्रहेषु दोषदर्शनादरतिः धर्मे बहुमानो धार्मिकेषु च। ____टी-जगत्कायस्वभावौ चेत्यादिना / जगत्कायायुक्तलक्षणौ, तत्स्वभावौ तु भाष्यकृता स्वयमेव व्याख्यातौ। संवेग्यवैराग्ये (ग्यार्थ) च भावयेदित्येतावदनेन भाष्येण विधीयते / तत्र जगत्स्वभाव इत्यादि / तत्रेति जगत्कायस्वभावयोजगत्स्वभावस्तावदुच्यते / जगत् जीवाजीवद्रव्याणि तत्स्वभावाः-परिणामाः तेषामेव जगच्छन्दवाच्यानां द्रव्याणां-द्रव्यपुद्गलादीनां अनाद्यामित्परिणामयुक्ता इति / कश्चिदनाद्यः परिणामो जीवस्यासंख्येयप्रदेशव. त्वचेतनावत्वज्ञानवत्त्वादिः, कश्चिदादिमान् देवतादिः। पुद्गलद्रव्यस्यापि मूर्तिमत्त्वरूपादिमत्त्वादिरनादिः, आदिमान् घटपटादिलक्षणः / धर्माधर्मयोर्लोकाकाशव्यापित्वादिरनादिः आदिमान् गतिस्थितिपरिणतद्रव्यजनितः / लोकाकाशस्यामृतेत्वासंख्येयप्रदेशवत्वादिरनादिः, आदिमानवगाहकद्रव्यापेक्षः / एभिर्युक्ताः प्रादुर्भावादयो जगत्स्वभावाः / अनाद्यादिमत्परिणा व्याख्या 1 'शेषोपायो' इति प्रारम्भकः ‘क्रियाविशेषस्तस्य' इत्यन्तकः क-ख-पाठः तु प्रक्षिप्त इति स्पष्टम् /