________________ सूत्र 7 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् अनेकेनाप्युपायेनायोधयितुमशक्याः प्रकृष्ट मिथ्यादर्शनाज्ञानोदयवर्तिनो रकद्विष्टपूर्वध्याराहिताश्चाविनेयास्तषु / माध्यस्थ्यं औदासीन्य इत्यादि पर्याय कयनेन व्याख्या / अरक्तद्विष्ट--उदासीनः तद्भाव औदासीन्यम् / उपेक्षेति ईक्षणम् आलोचन सामनारक्तद्विष्टतया / अरागवृत्तिता अद्वेषवृत्तिता वोपेक्षेत्येकार्थाभिधायिनः शब्दाः // भा०-अविनेया नाम मृत्पिण्डकाष्ठकुञ्यभूता ग्रहाधारणविज्ञानेही मोहवियुक्ता महामाहाभिभूता दुष्टावग्राहिताश्च / तेषु भाध्यस्थ्यं भावयेत् / नहि तत्र वक्तुहितोपदेशसाफल्यं भवति // 6 // किश्चान्यत् टी--अविनेया नामेत्यादि / विनीयन्ते-शिक्षा ग्राहयितुं शक्यन्त इति विनेयाः, न विनेया अविनेयाः, अशिक्षाही इत्यर्थः / नामशब्दो वाक्यसौभाग्यप्रयोजनः / मृत्पिण्डेत्यादिशब्द उपमार्थः / मृत्पिण्डकाष्ठकुड्यानीच मृत्पिण्डका ठकुडयभूताः, यया मृत्पिण्डादयो निश्चेतनाः श्रोत्रादीन्द्रियव्यापारशून्या नोपदिष्टमपि हितं समाददते तद्वत् ये वे तथोक्ताः / एतदेव स्पष्टतरं विवृणोति-ग्रहणधारणेत्यादिना / श्रवणेन्द्रियावधानेनोपदेशग्रहणं प्रतिपत्तिः / गृहीतस्याविस्मरणं धारणम् / एवमेतदिति निश्चितप्रत्ययो विज्ञानम् / ईहा तत्त्वान्वेषिणी जिज्ञासा / विचारणोत्तरकालं अपोहः सदोषपक्षत्यागः / एभिग्रहणादिभिर्वियुक्ताः / महामोहो-मिथ्यादर्शनं तेनाक्रान्ता अभिगृहीतमिथ्यादृष्टयः / दुष्टावप्राहिताश्चेति / दुष्टास्तु रागादिढोषभाजः तैश्च पक्षानुरागात् परपक्षद्वेषाच्चान्यथावस्तुग्राहिताः / अवग्राहिता इति विप्रलब्धाः, ते च आजीवितावधि स्वमसद्गृह न मुञ्चन्ति / तेषु च माध्यस्थ्यं भावयेत् / पूर्वकेषु त्ववगतेरभावाद् विफल उपदेशः / किं पुनः कारणमेतेषु माध्यस्थ्य भावनीयम् ? / नहि तत्रेत्यादि / नैव तत्र मृत्पिण्डादितुल्ये दुष्टावग्राहिते च वक्तुः-कथयितुर्हितोपदेशदानसाफल्यं भवति। निष्फलं चोपदेशं तीर्थकृतोऽपि नाद्रियन्ते, यथाऽऽह" सर्वत्र देशविरति"मित्यादि / एवं च भावयतो मैञ्यादिवतानां स्थैर्य भवतीति // 6 // अयमपरोऽभिनवाकुशलकर्मादाननिवृत्तिपरेण महाव्रतधारिणा क्रियाविशेषः प्रणिधेयो भावनाप्रस्ताव इत्यादर्शयति / किश्चान्यदित्यनेन सम्बन्धयति / अन्यदपीदं भावनीयमित्याहसूत्रम्-जगत्कायस्वभावौ च संवेगवैराग्थार्थम् // 7-7 // टी.---तांस्तान् देव मानुष-तिर्यङ् नारकपर्यायानत्यर्थं गच्छतीति जगत्-प्राणिजातमु. व्यते, धर्मादिद्रव्यरान्निवेशो वा, चीयत इति कायः-शरीरम्, जगच कायश्च जगत्कायौ तयोः १'वः' इति ग-पाठः / 2 'सव्वं च देसविरई' इति आवश्यक-नियुक्ती (गा. 564) /