________________ 58 तत्वार्थाधिगमसूत्रम् [ अध्याय: 7 र्यायः / करुणा घृणाऽनुकम्पा दया कृपा दीनानुग्रह इत्यनन्तरम् / दीना दुःग्विताः शारीरमानसर्दुःखरभिभूताः // ___भा०- तन्महामोहाभिभूतेषु मतिश्रुतविभगाजानपरिगतेषु विषयतर्षाग्निना दन्दश्यमानमान मेपु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधःग्वादिनेषु दीनकृपणानाथवालमोमुहवृद्धेषु सत्त्वेषु भावयेत् / तथा हि भावयन् हितोपदशादिभिस्ताननुगृह्णातीति // टी०-तदिति कारुण्यमभिसम्बध्यते / तत् कारुण्यं भावयेत् स्वक्षेने / किं पुनः म्वक्षेअमित्याह-महामोहो-मिथ्यादर्शनानन्तानुबन्ध्यादिस्तेनाभिभूतेषु-वशीकृतेषु / महामोहाभिभवादेव च मतिश्रुतविभङ्गाज्ञानपरिगतेष्वित्याह / मतिश्रुतविभङ्गाज्ञानान्युक्तलक्षणानि प्रथमे, तत्परिंगतेषु-तदाकारपरिणतिषु / विषयाः-शब्दादयस्तेषु तर्षो विषयतर्षः तट पिपासेति तर्ष एवाशिः परितापकारित्वात् तेन भृशं दन्दह्यमानचित्तेषु / न खलु विषयासेविनः कदाचित् तृप्यन्ति स्थविरावस्थायामपि काङ्क्षामोहग्रहग्रस्ता बहीविडम्बनाः समासादयन्ति / तथा चाग्निशिखालीढवपुषोऽशर्म सन्ततम् / एवं मूढा विषयतृष्णाज्वलनपरिपच्यमानचेतसो दिवानिशं न सुखमात्रामप्यनुभवन्ति / तेषु चैवंविधावस्थेषु / हिताहितेत्यादि / हित-मुक्तिसाधनं अहितं-संसारसाधनं तयोः प्राप्तिपरिहारी तत्र विपरीता प्रथत्तिर्येषां ते, हितं परिहरन्ति अहितमासेवन्ते, तेषु, विविधं-नानाप्रकारं ऐहिकामुष्मिकभेदं शरीरमनोविषयं दुःखं तेनार्दितेषु-हिंस्यमानेषु-दुःख्यमानेषु / साबाधशून्यमनस्कता दैन्यम् / तत्सम्बन्धाद् दीना:-अतिहीनयाच्याः। प्रणिपातः कापण्यं तद्युक्ताः कृपणाः / अनाथास्तूत्सभान्वया अचान्धवाः केनचिदपरिगृहीताः स्वयं वाऽसमर्थाः। बालाः-शिशवः मोमुहाःकाहलाः वृद्धाः-सप्ततिसंवत्सरसंख्यामतीत्य वर्तमानाः परिग्लानेन्द्रियाः परिपेलवस्मृतयः / केचित् पुनर्वालावस्था प्राप्ताः, तदेतेषु सत्त्वेषु-करुणाक्षेत्रेषु कारुण्यमविच्छिन्नं भावयेत् / तथा हीत्यादि / तथा च भावयन् उक्तेन प्रकारेण। हितोपदेशादिभिरिति / हितोपदेशोमुक्तिसाधनसम्बन्धः / आदिशब्दाद् देशकालापेक्षाभपानप्रतिश्रयकपेटभेषजैरपि ताननुगृहातीति // भा०-माध्यस्थ्यमविनेयेषु / माध्यस्थ्यमौदासीन्यमुपेक्षेत्य माध्यस्थ्यभावना नर्थान्तरम् // सरी-माध्यस्थ्यमविनेयेष्वित्यादि / रागद्वेषयोरन्तरालं-मध्यं तत्र स्थितो मध्यस्थः अरागद्वेषवृत्तिरिति तद्भावो माध्यस्थ्यं तच्च भावयेत् / क ? अविनेयेष्वित्याह / 'प्रस्तास्तावत्' इति उ-पाठः /