________________ सूत्र 6 ] . स्वोपनभाष्य-टीकालङ्कृतम् बन्धः / स चैष प्रमृतदुरितशाबाशतसम्बाधो मात्सर्यविषयोदयः पुनः पुनरविच्छिन्नवी जाताप्रसवप्रत्यलस्तीक्ष्णप्रज्ञाकुठारधाराच्छेद्योऽवधीरितसकलशेषोपायो मैत्रीभावनया निरव शेपमामूलादुत्कर्तनीयः // भा०-प्रमोदं गुणाधिकेषु। प्रमोदो नाम विनयप्रयोगः / वन्दप्रमोदभावना नस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्र - तपोधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियाभिप्यक्तो मनःप्रहर्ष इति // ___टी-प्रमोदं गुणाधिकेष्वित्यादि / सम्यक्त्वादिगुणाधिकेषु व्रतिषु प्रमोद-प्रहर्ष भावयेत् / प्रमोदव्याचिख्यासया प्रमोदो नामेत्याद्याह / नामशब्दो वाक्यालङ्कारार्थे / अलङ्कारः सुभगता श्रोत्रसुखत्वं, शिक्षानिसर्गावदातो लोकाराधनसमर्थो विनयः सामान्येन / तद्विशेषस्तु विनीयते येन कर्म-विलयमापद्यते स विनयो ज्ञानदर्शनचरणोपचारभेदः क्रियाविशेषस्तस्य प्रयोगः-अनुष्ठानम्। विनयाहेषु वन्दनं-प्रहर्मनोवाकार्यविशेषत उत्तमाङ्गेन वन्दनार्हाणां पादस्पर्शनम् / स्तुतिः-स्तुत्यानां सद्भूतगुणोत्कीर्तनम् / वर्णवादो-यशःप्रख्यापन वर्णो-यशस्तत्प्रथनम् / अवदातचरिताः खलु मुनयोऽमी यथोत्क्षिप्तमोक्षानुगुणचेष्टाभारवाहिन इत्यादिकः / वैयावृत्त्यं व्यावृतता बालग्लानगुरूपवासिक्षिप्राघूर्णकानुद्दिश्याऽपरान् वा मुनीनागमविहितभक्तपानवस्त्रपात्रप्रतिश्रयदण्डकाद्युपकरणमार्गणानयनप्रदानलक्षणो व्यापारस्तस्यानुष्ठानं करणम् / आदिशब्दाद देशकालापेक्षः साधृद्देशेनानेकप्रकारः पूजाहेतुः संगृहीतः। सम्यक्त्वं-तत्त्वार्थश्रद्धानलक्षणम् / ज्ञानं-हिताहितप्राप्तिपरिहारविषयो बोधः / चारित्रं-मूलोत्तरगुणभेदम् / तपो-बाह्याभ्यन्तरविधानम् / एभिः सम्यक्त्वादिभिरधिकाःसाधषो गृहस्थादिभ्यस्तेषु परेणात्मना उभा(भया)भ्यां वा कृता या वन्दनादिलक्षणा पूजा तया जनित-उत्पादितः सर्वेन्द्रियाभिव्यक्त इति / सर्वग्रहणं सम्भवापेक्षम् / साधुगुणोत्कीर्तनसमये विततकर्णदानविकसदुत्फुल्ललोचनाविर्भूतरोमाञ्चकञ्चुकतादिलिङ्गप्रकटितो मनामहर्षः प्रमोद इत्याख्यायते / / कारुण्य- भा०-कारुण्यं क्लिश्यमानेषु / कारुण्यमनुकम्पा दीनानुग्रह इत्यभावना नर्थान्तरम् / टी०-कारुण्यमित्यादि / करुणा-अनुकम्पा तद्भावः कारुण्यम् / कः पुनरस्य विषय इति क्लिश्यमानेष्वित्याह / कर्तरि लः। क्लिश्यमानेषु-सन्तापमनुभवत्सु / एतदेव प्रपश्चयति भाष्यकार:-कारुण्यमनुकम्पेत्यादि / अनुकम्पा दीनानुग्रह इति कारुण्यप १'प्रयोगवन्दन. ' इति ग-पाठः / 2 'इस्यर्थः' इति घ-पाठः / 3 'प्रताप० ' इति ग-पाठः, ' ताप.' इति तु-पाठः /