________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 कण्ड्रपरिगतत्वोच्चाब्रह्मेति, तथा परिग्रहेष्वप्राप्तप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु च रक्षणमुपभोगे वाऽवितृप्तिरिति, तदनापै मूत्रकरणमिति विज्ञायते / यदि च मूत्रं स्यात् भाष्यस्य सूत्री जा तत उपभोगे वाऽवितृप्तिरित्यस्यावयवस्य विवरणं स्यात् , न चास्ति, करणे दोषः " तस्मादनार्षे सूत्रद्वयमन्तरालकमिति / एवम्-इत्युक्तेन प्रकारेण भावयतो चासयतः स्थैर्य वतिनो व्रतानां भवति // 5 // किश्चान्यदित्यनेन सम्बन्धमाह / भावनाप्रस्तावेऽन्यच्च किं भावयितव्यमित्यत आहसूत्रम्--मैत्रीप्रमोदकारुण्यमांध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमा नाविनेयेषु // 7-6 // टी.-मैत्र्यादीनां कृतद्वन्द्वानां द्वितीयाबहुवचनेन निर्देशः / सत्त्वादीनामपि कृतद्वन्द्वानां भावनाविषयत्वेनाधिकरणविभक्तिबहुवचनेन निर्देशः / किश्चान्यदित्यस्यार्थ स्पष्टयति भा०-भावयेद् यथासङ्ख्यम् / मैत्री सर्वसत्त्वेषु / क्षमेऽहं मैत्रीभावना सर्वसत्त्वानाम् / मैत्री मे सर्वसत्त्वेषु / वैरं मम न केनचिदिति॥ टी-भावयेद् यथासङ्ख्यमित्यनेन भाष्येण / भावनावसरे इदमपरं मैत्र्यादि भावयेत् / तच्च यथासङ्ख्यमभिसम्बध्य भावयेत् / मैत्री सत्वेषु, प्रमोदं गुणाधिकेषु, इत्येवमन्यत्रापि योज्यम् / मैत्री सर्वसत्त्वेष्वित्यादि भाष्यम् / मित्रं 'जिमिदा स्नेहने' औणादिकः ष्ट्रन् / मिद्यतीति मित्रं, स्निह्यतीत्यर्थः। तस्य भावः समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री / येऽपि कृतापकाराः प्राणिनः प्रमादादन्यथा वा तेष्वपि मित्रतां चेतसि सभिवेश्य मित्रमहमेतेषां एते च मे मित्राणीति तत् कथमहं मित्रद्रोहतां प्रतिपत्स्ये 1 / दौर्जन्याश्रयं हि मित्रद्रोहित्वम् / अतः क्षमेऽहं सर्वसत्त्वानामिति क्षमां भावयेत् / सम्यक् मनोबाकायैः सहेऽहं सर्वसत्त्वानाम् / एवं हि मित्रता यथार्थत्वमासादयति / येषां च मयाऽपकारः कृतस्तानपि सत्त्वान् क्षमयेऽहं मित्रत्वात् / हस्वत्वं 'णिचश्च' (पा० अ० 1, पा० 3, सू० 74) इत्यात्मनेपदम् / क्षमये इति क्षमा ग्राहयामि सर्वान् प्राणिनः प्रशस्तेन चेतसा / स्वचेतसश्च कालुष्यमपनेयमित्येवमुपनयस्तन्त्रे / परस्तु क्षमेत वा न वेत्येतदेव स्पष्टतरं विश्रणोति–मेत्री मे सर्वसत्त्वेषु वैरें मम न केनचिदिति / वीराणामिदे कर्म तस्येदम्' (पा० अ०४, पा०३, सू० 120 ) इत्यण / वैरमविच्छिन्नकोपराणां शूराणामन्योन्यव्यापादनलक्षणा कोपरम्परा, तत्र कृतापकारेण अकृतापकारेण वा केनचिदसुमता सार्धमवैरानु २'माध्यस्थानि' इति घ-पाठः। 3 'क्षमये.' इति घ-पाठः। 1 'त्वादब्रह्मेति' इति हु-पाठः। 4 प्रसराणा' इतिपाठः /