________________ सूत्रं 5] . स्वोपनभाष्य-टीकालङ्कृतम् कामस खं दुःसमे वेति ख्याप्यते / तीव्रयेत्यादि कण्डविशेषणम् / तीव्रा- पराकाष्ठां गता त्वकचर्मशाणितममग्मांमपिशितमेदाद्यनुगता-प्राप्ता / न चैवंविधया कण्ड्वा परिगतात्मा व्याप्तशरीरः काष्ठादिकण्डूयनक्रियायाः कारण नानारूपमपदिशति / काष्ठशकलं-काष्ठखण्डं येन कण्ड्रया निवर्तते / लोष्टः--इष्टकादिखण्डम् / शर्करा-शर्करोटादिका / नखशुक्तयोनखमुखानि / प्रदर्शनमात्रमेतत् / एभिः काष्ठशकलादिभिर्विच्छिन्नगात्र इति विदारितगात्रः कृतत्वक्छेदस्ततश्च स्रवता रुधिरेणाः / कण्डूयमान इति कण्डूजूधातोर्जित्वात् कभिप्राये क्रियाफले आत्मनेपदम् / कण्डूयमानः-कण्डूयां निवर्तयन् एवंविधावस्थो दुःखमेव मुखमिति मन्यते मोहात् / प्रयोगोऽपि भाष्यार्थानुगतो-विवादगोचरापन्नो बीजनिसर्गो न सुखं प्रति कारणं, व्याधिप्रतीकारमात्रत्वात् पामनकण्डूयावत् / यः पुनरैकान्तिकात्यन्तिकसुखहेतुः स नैव व्याधिप्रतीकारमात्रकारी ज्ञानक्रियालक्षण इति / तद्वन्मैथुनोपसेवीत्यनेन साय॑मापादयति दार्शन्तिकस्य दृष्टान्तेन सह / ततश्च सह दुःखभावनावासितचेतसो मैथुमाद व्युपरमः श्रेयानिति // यथा प्राणातिपातादयो दुःखं तथा परिग्रहोऽपीति प्रतिपादयति भा०--तथा परिग्रहवानप्राप्तप्राप्तनष्टेषु काङ्क्षारक्षणशोकोद्भवं दुःखमेव प्रामोतीति परिग्रहाद् व्युपरमः श्रेयानिति / एवं भावयतो व्रतिनो व्रतस्थैर्य भवति // 5 // किश्चान्यत टी०-परिग्रहः सचित्तादिभेदो ममत्वसम्बन्धः / स च ममत्वी परिग्रहवान् / अप्रासादीनि त्रीण्यपि कृतद्वन्द्वानि परिग्रहविशेषणतयोपात्तानि / काइन्क्षादित्रयमपि कृतद्वन्द्वम् / साक्षाद् दुःखहेतुत्वोपंपत्तेः / अप्राप्तविशिष्टपरिग्रहता काङ्क्षादिहेतुः। काक्षादयोऽपि दुःखहेतवः / काङ्क्षादिभ्य उद्भवो यस्य दुःखस्य तत् तथोक्तम् / तत्र काङ्क्षा-अभिलापोऽर्जनम्उपादाने प्रयत्नः स च दुःखमेव, खेदकारित्वात् / एवं तावदप्राप्तेषु दुःखभावना / प्राप्तेषु च परिग्रहेषु नृपदहनतस्करदायादमूषिकादिभ्यो रक्षणे नित्योद्विग्नः कुर्वन् दुःखमेव प्राप्नोति / नष्टेषु तु परिग्रहेषु दुःखनिमित्ततः स्मृत्यनुषङ्गलक्षणोऽसह्यः शोकस्ततः स तद्भवशर्म प्राप्नोति / अतः परिग्रहाद व्युपरमः श्रेयानिति / एवं भावयत इत्यादिना दुःखमेवेत्यस्य सूत्रस्य परिसमाप्तिमादर्शयति / ततश्च ये भाष्यमेव कयापि बुद्धया सूत्रीकृत्याधीयते व्याधिप्रतीकारत्वात् 'निवर्त्यते' इति ग-पाठः। 2 निवर्तयन्' इति उ-पाठः। ३'सुखप्रतीतिकारणं ' इति ग-पाठः, 'सुखपारणं' इति तु ङ-पाठः / 4 'सम्यगापाद.' इति -पाठः। 5 'परिग्रहेषु अप्राप्तनटेषु काक्षाशोको प्राप्तेषु च रक्षणं उपभोगे चावितृप्तिः' इत्यधिकः घ-टी-पाठः / 6 परिग्रहेषु काक्षा.' इति ख-पाठः / 7 'उपभोगे चावितप्तिरिति' इत्यधिको घन्टी-पाठः। 8 'वोपात्तः' इति ग-पाठः / 'माप्नोति' इति ख-स-पाठः।