________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 7 सर्गसमकालभाविस्पर्शनेन्द्रियद्वारकं सुखमनुभवप्रमाणसिद्धं भूयसां प्राणिनामपलुवानस्य प्रतीतिप्रत्यक्षविरोधाववश्यंभाविनावित्यारेकिते भाष्यकृदाह-तच नेत्यादि / तदित्यनेन स्पर्शनसुखमभिसम्बध्यते / न खलु तत् सुख, दुःखमेवेत्यभिप्रायः। वक्ष्यमाणोऽयमेतद्दृष्टान्तबलात् प्रतीतिप्रत्यक्षविरोधावनास्पदौ, इतरस्तमेव दृष्टान्तमभिध्यायनाह-कुत इति / कस्मादेतत् स्पर्शनसुख दुःखमेव प्रतिपत्तव्यं युक्त्यन्तरात् ? / साध्यसाधनसङ्गतेन हि साधर्म्य दृष्टान्तेन प्रतिपत्तिरुपजायते साध्यसाधनशून्येन व्यतिरेकदृष्टान्तेन वेति भाष्यकार आह-व्याधिप्रतीकारवादित्यादि / राजपुत्रीक्षयकुष्ठादयो व्याधिविशेषास्तेषां प्रतीकारः-प्रतिक्रिया, तमिदानपरिहारेण भेषजोपयोगः पथ्यासेवनं च / उद्भूतो हि व्याधिः शरीरमनसोबोधामाधत्ते / बाधाप्रतिक्षेपश्च भेषजाधुपयोगसाध्यः / कर्मणां च क्षयोपशमोदयादयः क्षेत्रकालद्रव्यभावाद्यपेक्षा न खल्वात्यन्तिकं सुखोपजननमाधातुं समर्थाः, दुःखप्रतिबन्धमात्रकारित्वात् / मूढाश्च तमवस्थाविशेषं सुखमिति मन्यन्ते / व्याधिश्च मकरध्वजः // प्रथमोद्दिष्टव्याधितुल्यविपाकत्वात् हेतुविचारणायाह भा०-असुखे ह्यस्मिन् सुखाभिमानो मूढस्य / तद्यथा-तीव्रया त्वक्शोणितमांसानुगतया कण्ड्वा परिगतात्मा काष्ठशंकललोष्टशर्करानखशुक्तिभिविच्छिन्नगात्रो रुधिराः कण्डूयमानो दुःखमेव सुखमिति मन्यते / तबन्मैथुनोपसेवीति मैथुनाद व्युपरमः श्रेयान् // टी०-असुखे यस्मिन्निति। दुःखमेव भ्रान्ताः सुखमित्युपचरन्ति मोहादज्ञानाच्चेस्यतोऽसुखे तस्मिन् सुखबुद्धिर्यथा गण्डादिषु पाकाभिमुखेषु परिपकेषु च तीव्रवेदनापरिगतस्य जन्तोस्तत्पाटनपूयनिःसरणेन वेदनामात्रप्रशमस्तथा पुरुषवेदाधुदयात् तीव्रार्तिभाजोऽवधीरितविवेकबलस्य यत्किञ्चनकारिणो ग्रहाविष्टस्येव परवशतः सदाऽऽर्तध्यानपीड्यमानमनसः स्यादिसंयोगे विलपतोऽसभ्यानि प्राप्तमृच्छोगमस्येव बाढं क्लिनतो बीजलेशानुत्सृजतः पूयलवानिव सुखमभिमन्यमानस्य मोहनीयकर्मविज़म्मनिर्भरचेतसो मैथुने न सुखावाप्तिः दुःखमेव, अस्मिन् प्रत्यक्षप्रमाणसमधिगम्ये कुतः प्रतीत्यनुभवविरोधा विति / यस्त्वनुभवस्तत्र सुखरूपः सोऽभिनिविष्टबुद्धरभिमानवतः समुपजातभ्रान्तेः शुक्तिकायां रजतप्रत्ययानुभववदिति / अतो विवादगोचरापन्नो बीजनिसर्गो न सुखहेतुः, व्याधिप्रतीकारत्वात् पूयादिनिसर्गवत् / आस्मिंश्च प्रतिज्ञाने दृष्टान्तः सुलभ इत्यनुपासोऽपि भाष्यकृता व्याख्यात्रा प्रदर्शितः। भाष्यकारीयदृष्टान्तस्तु-तद्यथेत्यादिना भार्यते / 3 'शिलालोष्ट.' इति क-पाठः / 'ममिधापयन्नाह' इति ङ-पाठः। 2 'विवरणाय' इति ङ-पाठः। ४'भाव्यते' इति ग-पाठः।