________________ सूत्र 5 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् पर्यवसानम् / एवं सर्वेषां सत्त्वानामप्यप्रियं वधबन्धच्छेदनपाटनोल्लम्बनादिहेतुकमात्मानुमानादवसेयमित्येवमालोचयतः कृतिनो मनसि निश्चित अवतिष्ठते / अतो हिंसाया व्युपरमः श्रेयानिति // अनृतभाषणमपि दुःखमेवेत्यभिधित्सुराह भा०-यथा मम मिथ्याभ्याख्यानेनाभ्याख्यातस्य तीवं दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति अनृतवचनाद् व्युपरमः श्रेयान् // टी०-यथा ममेत्यादि / मिथ्याभ्याख्यानं प्राग व्याख्यातं, तेन मिथ्याभ्याख्यानेन-अलीकाध्यारोपेण अभ्याख्यातस्य-अभिमुखमाख्यातस्याभियुक्तस्य प्रकाशितस्य चानेनेदं कृतमुक्तं वेति तन्निमित्तं यथा मम प्रकृष्टं तीवं दुःखं भूतम्-उत्पन्नपूर्वमित्यर्थः, सम्प्रति वा भवत्यलीकाध्यारोपात तथा सर्वसत्त्वानां तादृगेव तीनं दुःखमभ्याख्यानहेतुकमुपजायतेऽस्मिन्नेव लोके, अमुष्मिन् पुनर्लोके मिथ्याभ्याख्यानपरो यत्र जन्म प्रतिलभते तत्र तत्र तादृशैरेवाभ्याख्यानैरभियुज्यमानः सदा दुःखमनुभवतीत्यनृताद् व्युपरमः श्रेयानिति // हिंसानृतभाषणदुःखवत् स्तेयमपि दुःखमेवेत्याह भा०-यथा ममेष्टद्रव्यवियोगे दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति स्तेयाद् व्युपरमः श्रेयान् // टी०-यथा ममेत्यादि / यथा मम स्वद्रव्यस्येष्टस्य वियोगेऽपहारक्रियया तस्करैः कृते दुःखं शारीरं मानसंवा पूर्वमभूत् भवति वाऽधुना तथा सर्वसत्त्वानाम् / अतः स्तेयाद् व्युपरमः श्रेयानिति // यथा च हिंसानृतस्तेयानि दुःखस्वभावानि, भा०–तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेव / स्यादेतत् स्पर्शनसुखमिति। तच न / कुतः ? व्याधिप्रतीकारत्वात् कण्डूपरिगतवच्चाब्रह्मव्याधिप्रतीकारत्वात् // टी०-पूर्वदुःखतुल्यतामतिदिशति / मायालोभौ रागः / क्रोधमानौ द्वेषः / माया छमरूपा / तदाकारपरिणामश्च हिंसानृतस्तेयेषु प्रवर्तते / लोमोऽपि गार्थ्यलक्षणस्तत्परिणामश्च मांसादिगाध्योदुक्तोऽवग्रहणेन चौर्यण चैतेषु प्रवर्तते / तथा क्रोधमानाभ्यामपि प्रेरितो हिंसादिषु प्रवर्तते इत्यत्यन्तप्रसिद्धम् / 'मैथुनस्यापि तावेव रागद्वेषौ निदानं, रागद्वेषकारणत्वाच्च मैथुनमपि दुःखमेवेत्यवधार्यते / रागद्वेषावात्मनः स्वभावः-कारणं यस्य तद् दुःखमेव रागवेषात्मकत्वाद् हिंसादिवत् / स्यादेतदित्यादिना ग्रन्थेनाशङ्कते। प्रसिद्धिरियम् --योषितामुपभोगे दशनच्छदपानाक्षिचुम्बनवपुःपरिरम्भणपीनस्तनतटीनखमुखावदारणगुह्यसंयोगवीर्यनि २'जन्मनि ' इति उ-पाठः / 3 परिणतश्च ' इति ङ-पाठः / १'निश्चेतमव.' इति खङ-पाठः। 4 ' द्यूतस्यापि ' इति ग-पाठः /