________________ सूत्र 4 ] . स्वोपज्ञभाष्य टीकालङ्कृतम् * टी-परदारेत्यादिना ऐहिकामुष्मिकप्रत्यवायोपदर्शनम् / परेपो दाराः परदाराःपरपरिगृहीतयोपितः / श्रुतज्ञानप्रतिपिद्धश्च सर्वो मैथुनव्यापारः परदारशब्दवाच्यः, तदभिगमनं-तदासेवनं (तेन) जनितानिहैव वैरपरम्परा शिरश्छेदनं ताडनं बन्धनं द्रव्यापहारं, आदिग्रहणात् नानाविधाः,प्रतिलभत इति, एत एव प्रत्यपायाः। प्रेत्य चेत्यादिना पारलौकिकात्यपायदर्शनम् / तस्मादब्रह्मणो व्युपरमः श्रेयानिति // पथा प्राणातिपातादिप्रवृत्तः प्रत्यवायेन युज्यते, __ भा०–तथा परिग्रहवान् शकुनिरिव मांसपेशीहस्तोऽन्येषां परिग्रहस्य विपाकः क्रव्यादशकुनानामिहैव तस्करादीनांगम्यो भवति / अजेनरक्ष णक्षयकृतांश्च दोषान् प्राप्नोति // टी०-तथा परिग्रहवानित्यादि / शास्त्राननुज्ञातो मूर्छास्पदं च परिग्रहः तद्वान् परिग्रहवानिति / ऐहिकप्रत्यवायप्रदर्शनार्थ शकुनिरिवेत्यादिदृष्टान्तग्रन्थोपन्यासः परप्रत्यायनप्रयोजनः / मांसपेशीति / मांसखण्डमेव दीर्घ पेश्युच्यते / आदानमोक्षणव्यापारवत्वात पादोऽपि हस्त एव शकुनेः, मांसपेशी हस्ते यस्येति मांसपेशीहस्तः / व्यधिकरणानामपि गमकत्वाद् बहुव्रीहिः कण्ठेकालयत् / अन्येषां क्रव्यादशकुनानामिति / आममांसभक्षा: क्रव्यादा अभिधीयन्ते / कृतविकृतशब्द उपपदेऽपि प्रेत्ययोद्देशः, पृषोदरादित्वाच्च कृतविक तशब्दस्य कन्यादेशः / कृतविकृतपकमांसभक्षास्तु क्रव्यादाः / कर्मण्यणेवेति। मांसपेशीपरिग्रहहेतोःक्रव्यात्पतत्रिणामिहैव गम्यः-अभिभवनीयः, चञ्चुचरणनखमुखपक्षतिप्रहतः परिशटत्पतत्रव्रजः शरणार्थी वियति नश्यन् निरालम्बनः परिश्रान्तस्तरुशिखराद्युपनप्राप्तिसमनन्तरमाक्रम्य बलादपहतमांसपेशीकः किश्चिदुच्छ्रसन् कण्ठगतप्राणः कृच्छाद् विमुच्यते शकुनिभिः / तस्करादीनां च गम्यः परिग्रहवान् / आदिग्रहणाद् राजदायादपरिग्रहः / तस्करादयः प्रसभं चौर्येण वाऽपहारमाचरन्त्यभिभूयेति / अर्जन, उपात्तस्य पालनं रक्षणं, क्षयो -नाश इत्यर्जनादिकृतांश्च परिग्रहवान् अवानाति दोषान् / तत्राजेनं न्याय्यमन्याय्यं वा / न्याय्यं वाणिज्यकर्मकरत्वं कृप्याद्युपायम् / तच्चातिलेशयुक्तम् / अन्याय्यं तस्करत्वाद्युपायसाध्यम् / तत्रापि वधबन्धविशसनादिदोषाः। रक्षणमपि सूत्रसुचेतसो (1) रात्रिंदिवं नृपदहनतस्करदायादमूषिकादिभ्यः क्लेशबहुलम् / क्षयोऽप्युपभोगादपुण्योदयाच / तत्रोपभोगकालमधिकृत्येदमाह भा०-न चास्य तृप्तिर्भवतीन्धनैरिवाग्नेः, लोभाभिभूतत्वाच कार्याकार्यानपेक्षो भवति, प्रेत्य चाशुभांगतिं प्राप्नोति, लुब्धोऽयमिति च गर्हितो भवतीति परिग्रहाद् व्युपरमः श्रेयान् // 4 // किश्चान्यत् १'विप्रत्ययादेः' इति ग-पाठः। 2 'दुच्छ्रासात्' इति ङ-पाठः। 3 'सूचित' इति:-पाठः /