________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः 7 टी०-तथा स्तेन इत्यादि / स्तेनः परकीयद्रव्यापहारे प्रसक्तमतिः-सक्तचित्तः। सर्वस्येति अपहियमाणद्रव्यादिस्वामिन उद्वेगं जनयति। इहैव चेत्यादिना / हस्तादीनामवयवानां छेदन-शरीरात् पृथक्करणं, भेदनं तु तथा सन्निविष्टानामेव वेधनपाटनादिकम् / वध्यपानमिति / वैध्यो व्यापाद्यस्तस्य पानं, मद्यपानस्य प्रधानत्वात् , तत्पूर्वकमन्यदपि करवीरकुसुममालामरणखरघटिकावलम्बमषीम्रक्षणचटकपंचकनाग्न्यकरणम् / मारणं-प्राणव्यपरोपणम् / आदिग्रहणात् स्वमांसखादनबन्धोत्कर्तनकपर्दिकामार्गणप्रकारपरिग्रहः / प्रेत्य चेत्यायुक्तार्थम्, अतस्तद्व्युपरमः श्रेयान् / स्तेयात्-चौर्याद व्युपरमः श्रेयानिति // यथा प्राणातिपातालीकास्तेयप्रवृत्ताः प्रत्यवायान् भूयसः स्पृशन्ति, भा०–तथा अब्रह्मचारी विभ्रमोद्घान्तचित्तो 'विप्रकीर्णेन्द्रियो मदान्धो गज .. इव निरङ्कुशः शर्म नो लभते / मोहाभिभूतश्च कार्याकार्यानअब्रह्मणो विपाका " भिज्ञो न किश्चिदकुशलं नारभते / / टी–तथा अब्रह्मचारीत्यादि / अब्रह्मचारी-मैथुनसेवी / विभ्रमो-विलास विशेषस्तेनोद्धान्तं चित्तं-चलमनवस्थितं यस्येति / विप्रकीर्णेन्द्रिय इति, तुच्छे विशिष्टे च विषये प्रवर्तितेन्द्रियवृत्तिः मनोज्ञेषु शब्दादिषु रागाङ्गेषु रागानुरक्तः, अमनोज्ञेषु द्विष्टेषु शब्दादिपु द्वेषाभ्युक्तात्मस्वरूपः / मदान्धो गज इवेत्यादिना हस्तिमूर्खेण सह साधर्म्य दर्शयति / इतरथाऽपि तिर्यश्चोऽपि हिताहितप्रवृत्तिनिवृत्तिपालोचने अक्षमाः, स्वल्पज्ञानक्षयोपशमत्वात्, अतिशयेन तु मदकाले गुञ्जन्मनोहारिध्वनिमधुकरालीढमदवारिनिर्झरस्नपितकपोलभित्तिः अनाहताऽऽधोरणव्यापादितनिशिताङ्कशतिग्माप्रवेधजनितव्यथो मत्तगज इव शर्म-सुखं नोपलभते नावाप्नोतीतियावत् / विभ्रमोद्घान्तचित्तत्वात् (वि)प्रकीर्णेन्द्रियत्वाच्चेति युक्तिद्वयम्,अवितृप्तस्य च कुतः सुखेन सम्बन्ध इति / मोहाभिभूतश्चेत्यादिना मोहनीयकर्मोदयं सूचयति / स्त्रीपुन सकवेदोदयाभिभूतः स तथा विजृम्भत इति / चशब्दात् पूर्वोक्तविधिसमुच्चयः / इदमकार्य इदं कार्य च नाभिजानाति ग्रहाविष्टपुरुषवत् परवशत्वात् , ततश्च न किञ्चिदकुशलं न प्रारभते, निर्विवेकत्वात् सर्वमेव कुशलं मन्यत इत्यभिप्रायः // मा०-परदाराभिगमनकृतांश्च इहैव वैरानुबन्धलिङ्गच्छेदनपरदारगमनस्य फलम् वधषन्धनद्रव्यापहारादीन् प्रतिलभतेऽपायान् , प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति अब्रह्मणो व्युपरमः श्रेयानिति // 'बध्योपाद्यः' इति क-ख--पाठः। 2 पश्चनाग्न्यकरण' इति ग-पाठः। 3 'प्रकीर्णे० ' इति ख-ग-पाठः। 4' तिर्यग्जातिः' इति -पाठः / 5 'अक्षमा ' इति उपाः /