________________ सूत्र ? ] . बोपज्ञभाष्य-टीकालङ्कृतम् आदिग्रहणादुल्लम्बनशिरश्छेदादिभिः, प्रतिलभत इति प्रतिप्राप्नोति / कृतस्य प्राणातिणतम्य च फलप्राप्तिरिहवेति / प्रेत्य चेत्यादिना फलमामुष्मि दर्शयति / प्रेत्य चेति मृत्वा / अशुभा गतिः नरकतिर्यकुमानुपत्वानि / गहितो-निन्दैिनः / प्राक्तनजन्मोपात्ताशुभकर्मविपाकोऽयमस्य पापकारिणो वराकस्येत्येवं सम्भावयतो विवेकालादस्य नियप्रत्यय उत्पद्यते---हिंमायास्त्यागो-व्युपरमः श्रेयानिति // भा०-तथाऽनृतवादी अश्रद्धेयो भवति / इहैव जिहाच्छेदादीन् अनृतस्य प्रतिलभते। विपाकः प्रतिलभते। टी---यथा प्राणातिपातकारी प्रत्यवायेन युज्यते तथाऽनृतवाद्यपीत्याहअनृतं वक्ष्यमाणलक्षणं तद्वादी भवति अश्रद्वेय इति / अश्रद्धेयः अविद्यमानश्रद्धेयं वचनमस्येति सामर्थ्यादभिसम्बध्यतेऽनृतस्य प्रक्रान्तत्वात् / इहैवेत्यादिना प्रत्यवायमैहिकमामुष्मिकं च दर्शयति-जिहाच्छेदादीनिति / आदिशब्दात् कर्णनासिकाकरणच्छेदपरिग्रहः। भा०-मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यस्तदधिकान् दुःखहेतून प्राप्नोति, प्रेत्य चाशुभांगतिं गर्हितश्च भवतीति अनृतवचनाद् व्युपरमः श्रेयान् // टी-मिथ्या-अलीकं अभ्याख्यानं-अनृतवचनम् // ननुच मिथ्याग्रहणमतिरिच्यते। यस्माल्लोकेऽभ्याख्यानशब्दोऽनृतवचन एव प्रसिद्ध इति। अभ्याख्यायक एव मिथ्याशब्दः। यद्वाऽभ्यापर्वस्यं चक्षिङोल्युटि वचनमात्रमभिलापोऽभ्याख्यानशब्देनोच्यते, तद्विशेषणाय चेदमुपादीयते मिथ्येत्येवमर्थवत्,नास्ति अलीकवचनेनैव चारोपयत्यनेनेदं कृतमनेनेदमिति, तेनाभ्याख्यानेनो पन्नदुःखास्तेभ्यश्चेति / पूर्वदोषापेक्षश्चशब्दः / बद्धेति। अविच्छिन्नं वैरं पातेभ्यः / तदधिकानिति जिहाच्छेदादिभ्योऽपि अतिशयेन यातनाप्रकारान् मिथ्याभ्याख्यानाधिकत्वाद् दुःखहेतून वधबन्धादीन् प्राप्नोति / तीबाशयो हि तीव्रस्थित्यनुभावमेव कर्मादत्ते। मुख्यः स्वहेतुराशयस्तत्पुरःसराः शेषहेतवः / प्रेत्येत्यादिनाऽऽमुष्मिकं फलमादर्शितम् , यसाच्चैवंविधो विपाकोऽनृतवचनस्य तस्मात् तद्व्युपरमः श्रेयानिति // यथा प्राणातिपातालीकानुष्ठायिनी प्रत्यवाययुक्ती, भा०-तथा स्तनः परद्रव्यहरणप्रसक्तमतिः सर्वस्योरेजस्तेयस्य विपाकः नीयो भवति / इहैव चाभिघातवध[बन्धन हस्तपादकर्ण ___नासोत्तरौष्ठच्छेदन भेदनसर्वस्वहरणवध्यपानमारणादीन् प्रतिलभते, प्रेत्य भाशुभां गतिं गर्हितश्च भवतीति स्तेयाद् व्युपरमः श्रेयान् / 'प्रतीतफल.' इति ङ-पाठः / 2 निन्द्यः' इति ग-उ-पाठः / 3 सम्भावयति ' इति ग-पाठः / 4 'निश्चय उत्पद्यते' इति हु-पाठः / 5 'यदा' ते गाठः। 6 ‘स्याक्षिणरोल्युम इति ग-पाठः / 7 'बद्धमित्यव.' इति ग-उ-पाठः / .. वतीति' इति घ-पाठः / 9 'यातन०' इति घ-पाठः। 1. भवति' इति ग-पाठः।