________________ 48 तत्वार्थाधिगममूत्रम् [ अध्यायः 7 याणामा-विषयाः स्पर्शादयः पञ्चैव येषां मनोज्ञा रागहेतवस्तेषां मनोज्ञानाम्-इष्टानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ-ग्रहणे सति गार्थ्यवर्जनम् / गायं-स्नेहः--तेषु रागपरिणामोऽतस्तद्वर्जनं श्रेयः / तथा अमनोज्ञानाम्-अप्रीतिहेतूनां ग्रहणे द्वेपवर्जनम्। द्वेषःक्रोधमानपरिणामः तत्यागात् पञ्चैता भावना भाव्यमानाः प्रतिक्षणमाकिञ्चन्यं परिपूरयन्ति / ममत्वलक्षणो भावतः परिग्रहः तद्व्यवच्छेदादपरिग्रहतेति // 3 // किश्चान्यदिति सम्बध्नाति, भावनाप्रस्तावेऽन्यदपि मोक्षगुणं भावयेदिति / इतिशब्दः अप्यर्थे / प्रतिव्रतं पञ्च पञ्च भावनाः प्रतिपादिताः / सम्प्रति तु सर्वव्रतसामान्यभावनाः कथ्यन्त इति // सूत्रम्-हिंसादिष्विहामुत्र चापायावद्यदर्शनम् // 7-4 // भा०-हिंसादिषु पञ्चस्वास्रवेषु इहामुत्र चापायदर्शनम् अवद्यदर्शनं च भावयेत् // टी-हिंसा आदिर्येषां तेषु हिंसादिषु इहेत्यस्मिन्नेव लोके अमुत्रेत्यमुष्मिन् परलोके नरकादिजन्मनि अपायः-अनर्थपरम्परा अवयं-गर्हितं पापं तद्विपाकान्नरकादिषु तीव्रदुःखानुभवनमपायावद्ययोदर्शनम्-उपलब्धिः , उपलभमानश्च न प्रवर्तते हिंसादिषु, ज्ञानपूर्वकत्वात क्रियानुष्ठानस्येति / एनमेवार्थ भाष्येण प्रपञ्चयति-हिंसादिष्वित्यादिना / हिंसादिष्वास्त्रवेषु कियत्सु ? पञ्चस्वित्याह / हिंसानृतस्तेयाब्रह्मपरिग्रहेषु आस्रवा उक्तलक्षणाः तेष्वपायदर्शनमवद्यदर्शनं च भावयेत् / इहैवामी प्रत्यवाया हिंसादिषु प्रवृत्तस्य दृश्यन्ते, पापवि. पाकश्च दारुणोऽमुत्रेत्येवं मुहुर्मुहुर्भावयेत् // भा०-तद्यथा-हिंसायास्तावत् हिंस्रो हि नित्योद्धजनीयो नित्याहिंसाया विपाकः नुबद्धवैरश्च / इहैव वधवन्धपरिक्लेशादीन्. प्रतिलभते प्रेत्य चाशुभां गति गर्हितश्च भवतीति हिंसाया व्युपरमः श्रेयान् // टी-तद्यथेत्यादि / तयोरपायावद्ययोविभागमाचक्षाणो हिंसायास्तावदित्याह / हिंसासम्बन्धिनी तावदपायावये प्रकाश्येते पश्चादलीकानाम् / हिंसनशीलो हिंस्रः-प्राणव्यपरोपणे जातशक्तिः। हिशब्दो यस्मादर्थे / नित्यं-सततमुद्देजनीयः-संत्रासकारी / 'कृत्यल्युटो बहुलं'(पा० अ०३, पा०३, सू०११३)इति कर्तरि कृत्यप्रत्ययः / सर्वदा उद्वेजको निसा(निःसी?)मायुधो भीषणवेषो ललाटतटारोपितभूभङ्गः प्रकृष्टामयेारसनिर्भरारुणलोचनो गाढदष्टदशनच्छदः सत्त्वानामुद्वेगकारीति प्रतीतम् / नित्यानुबद्धवैरश्चेति / नित्यमनुबद्धं-प्रसक्तं वैरमस्येति नित्यानुबद्धवैरः,सर्वदा प्रवृत्तवैरसन्तानश्च त(य)स्मानित्योद्वेजनीयो नित्यानुबद्धवैरश्च भवति।तस्मादिहवेत्यभिसम्बन्धः / इहैवेत्यस्मिन्नेव लोके वधः-ताडनं द्विदलकशादिभिर्बन्धः पश्चापिण्डनहडीनिग. डगलशृङ्खलादिकः परिक्लेशोऽङ्गुष्ठग्रहणोष्मस्थापनजलावसेककाष्ठेप्टकरोपणादिप्राणव्यापत्तिः, 1 'हिंसाशीलो' इति ग-पाठः / 2 'णोष्णस्थापन ' इति उ-पाठः। 3 'व्यापञ्च' इति उ-पाठः /