________________ सूत्रं 3 ] . स्वोपज्ञभाष्य टीकालङ्कृतम् 47 भा०-ब्रह्मचर्यस्य स्त्रीपशुपंण्डकसंसक्तशयनासनवर्जनम् , ब्रह्मचर्यस्य पञ्च रागसंयुक्तस्त्रीकथावर्जनम्, स्त्रीणां मनोहरेन्द्रियालोकवर्जभावनाः नम्, पूर्वरतानुस्मरणवर्जनम् , प्रणीतरसभोजनवर्जनमिति / / टी–अब्रह्मासेवननिवृत्तिः ब्रह्मचर्यम् / तस्यापि पञ्च भावनाः, तद्यथा-स्त्रीत्यादि भाष्यम् / स्त्रियो रूढ्या देवमानुषभेदाद् द्विविधाः / पशुग्रहणात् तिर्यग्जातिपरिग्रहः / तत्र वडवा-वालेयी-गो-महिष्य-जाविकादिषु सम्भवति मैथुनम् / एताश्च सचित्ताः, अचित्ताः स्त्रियः पुस्तलेप्यचित्रकर्मादिषु बहुप्रकाराः। पण्डकास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः योषास्यसेवनाभिरताः क्लीबा इति प्रसिद्धाः, कृतद्वन्द्वैरेभिः संसक्तमाकुलं शय्यते यत्रास्यते च तच्छयनासनं प्रतिश्रयसंस्तारकांसनादि, तच्च बद्दपायत्वाद् वर्जनीयमित्येवमात्मानं भावयेत् / तथा स्त्रीपशुपण्डकानामसन्निधानेऽपि रागसंयुक्तस्त्रीकथावर्जनम् / मोहोद्भवः कषायो रागः तदाकारपरिणामो रागसंयुक्तः / स्त्रीणां कथा स्त्रीकथा, रागसंयुक्तस्य स्त्रीकथा, अथवा रागसंयुक्ता चासौ स्त्रीकथा चेति रागानुबन्धिनी देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा वात्येव चित्तोदधेरवश्यंतया विक्षोभमातनोति तस्मात् तद्वर्जनं श्रेय इति भावयेत् / तथा स्त्रीणां मनोहरेन्द्रियालोकनवर्जनं मनोहराणि मानोन्मानलक्षणयुक्तानि दर्शनीयानि मृजावन्तीन्द्रियाणि योषितामपूर्व विस्मयरसनिभरतया विस्फारितलोचनः प्रेक्षते विकचकुवलयविपुलदलच्छवि नयनयुगलमस्याः कर्णजाहमकटाक्षमप्यालोकितं झगिति मनसिजज्वलनमादीपयति, किमुत विकटकटाक्षकवचितम् / एवं यथाविभागसनिविष्टावयवानि श्रोत्रघ्राणवदनपीनपयोधरभरजघनस्थलादीनि वाच्यानि / स्वगिन्द्रियभेदत्वात् स्तनकलशाद्युपन्यासः / इत्येवं तदालोकनाद्युपरतिः श्रेयसीति भावयेत् / तथा पूर्वरतानुस्मरणवर्जनं प्रव्रज्यापर्यायात् पूर्वो गृहस्थपर्यायस्तत्र रतं-क्रीडितं-विलसितं यदङ्गनाभिः सह तस्यानुस्मरणात् कामानिस्तत्मरणेन्धनानुसन्धानतः सन्धुक्षते, अतस्तद्वजेनं श्रेय इति भावयेत् / तथा प्रणीतरसभोजनवर्जनमिति / प्रणीतो-वृष्यः स्निग्धमधुरादिरसः क्षीरदधिनवनीतसर्पिर्गुडतैलपिशितमद्यापूपादिस्तदभ्यवहारो-भोजनं ततो मेदोमज्जाशुक्रापुपचयस्तस्मादपि मोहोद्भवः, अतः सतताभ्यासतः प्रणीतरसाभ्यवहारो वर्जनीय इत्यात्मानं भावयेद् ब्रह्मचर्यमिच्छनिति // भा०-आकिञ्चन्यस्य पश्चानामिन्द्रियार्थानां स्पर्शरसगन्धवर्णशब्दाना मनोज्ञानां प्राप्ती गार्थ्यवर्जनममनोज्ञानां प्राप्तौ द्वेषवर्जनमिति // 3 // किश्चान्यदिति / टी-किश्चनं बाह्याभ्यन्तरपरिग्रहः / अविद्यमानकिञ्चनः अकिञ्चनस्तद्भाव आकि अन्यं-अपरिग्रहता तद्भावनाः पञ्च / तदभिधित्सयेदमाह-पञ्चानामित्यादि / पश्चानामिन्द्रि 1' षण्डक. ' इति घ-पाठः। 2 . संकुलमाकुलं ' इति क-पाठः। 3 ' •काशनादि' इति क-पाठः /