________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 चिद् वितथं भापते-तस्करोऽयं पिशाचो वा मया रजन्यां दृष्ट इति, तस्मानिर्भयवासनाध्यानमात्मनि विधेयमिति / हास्यं हसनं-मोहोद्भवः परिहासस्तत्परिणतो ह्ययमात्मा परिहसन् परेण सार्धमलीकमपि चूयात, तस्य परिजिहीर्षया च हास्यप्रत्याख्यानमभ्युपेयम् / एताः पश्चापि भावयन् भावनाः सत्यव्रतरक्षणक्षमो भवतीति // तथाऽदत्तादानविरतेः पञ्चैव भावनास्तयाचिख्यासयाऽऽह भा०-अस्तेयस्यानुवीच्यवग्रहयाचनमभीक्ष्णावग्रहयाचनमेतावदित्यवग्रअस्तेयस्य पञ्चभावनाः हावधारणं समानधार्मिकेभ्योऽवग्रहयाचनं अनुज्ञापितपान भोजनमिति // टी०-अस्तेयस्य पञ्चेत्याधुपन्यस्यति / आलोच्यावग्रहो यांचनीयः / स चायं पञ्चप्रकारः पठितो देवेन्द्र-राज-गृहपति-शय्यातर-साधर्मिकभेदेन / अत्र च पूर्वः पूर्वो बाध्य उत्तर उत्तरोबाधक इति सश्चिन्त्य यो यत्र स्वामी स एव याच्यः / अस्वामियांचने तु दोषबाहुल्यमुक्तम् आर्ष एव अकाण्डव्रीडनायैहिकमामुष्मिकमदत्तपरिभोगजनितं, तस्मादालोच्य अवग्रहो याच्य इत्येवमात्मानं भावयेत् / इत्थं च भावयन्नादत्तादाने प्रवतेत इति / सकृद् दत्तेऽपि परिग्रहे स्वामिना भूयोऽभीक्ष्णावग्रहयाचनं कार्य, अभीक्ष्णं-नित्यं मुहुर्मुहुः पूर्वलब्धपरिग्रहो ग्लानाद्यवस्थासु मूत्रपुरीपोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दातचित्तपीडापरिहारार्थ याचनीयानि, एवं च याच्यामाचरन्नादत्तादानजनितेनागसा स्पृश्यते / तथा एतावदित्यवग्रहावधारणं एतत्परिमाणमस्यैतावत्परिमितं सवेतः क्षेत्रमवग्रहीतव्यं इत्येतदेवावधारणं सर्वतश्च परिमाणं तदभ्यन्तरवर्तिनीमूर्ध्वस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति / यात्राकाल एव चानवधारणे विपरिणतिरपि वचसि स्याद्वदान्यस्येत्यात्मनोऽपि चादत्तपरिभोगजनितः कर्मबन्ध इति / समानधार्मिकेभ्य इत्यादि। धर्म चरन्ति-आसेवन्ते इति धार्मिकाः, समानाः-तुल्याः प्रतिपन्नकशासनाः सम्यक्त्वादिमुक्तिसाधनसमन्विताः साधवस्तेभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो याच्यस्तदनुज्ञानाद्धि तत्रासनमन्यथा स्तेयं स्यात् / तदनुज्ञातं तु प्रतिश्रयादि समस्तं गृह्णीयादित्येवमात्मानं भावयेत् / तथाऽनुज्ञापितपानभोजनमिति पञ्चमी भावना / अनुज्ञापितम्--अनुज्ञां प्रापितम्--अनुज्ञया स्वीकृतं पानभोजनं सूत्रोक्तेन विधिना पश्चमानकं पाषण्डमनुप्रविश्य व्यपगताङ्गविकारः पिण्डैषगोपयुक्तः अकृतकारितानुमतमतिसृष्टं कल्पनीयमानीय गुरवे निवेद्यालोचनापूर्वकमभ्यनुज्ञातो गुरुणा मण्डल्यामेकको वा भुञ्जीत / भुजिरत्र पालनेऽभ्यवहारे च व्याख्येयः / ततश्च यावत् किश्चिद्धर्मसाधनमुपकरणमौधिकौपग्रहिकभेदं तत् सर्वमनुज्ञातं गुरुणा वन्दनपुरःसरं गुरुवचनविधिना परिभोक्तव्यम्, एवमात्मनि वासनामादधानो नातिक्रामत्यस्तेयव्रतमिति // १...वाचनीयः' इति ग-पाठः। २'नीमूलस्थाना' इति क-पाठः / 3 'चेतसि ' इति ड-पाठः।