________________ 45 सूत्रं 3 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-तद्यथेत्यनेन प्रस्तुतभावनोपन्यासः / अहिंसायास्तावदिति / अहिंसा प्राणातिगातविरतिः / तावच्छब्दः क्रमद्योतक / अस्याः प्रथममुच्यते, पश्चान्मृपावादादिविरतेरभिधास्यते / ईरणमीर्या--गमनं तत्र समितिः-सङ्गतिः श्रुतरूपेणात्मनः परिणामः, तदुपयोगिना पुरस्ताद् युगमात्रया दृष्ट्या स्थावरजङ्गमानि भूतानि परिवर्जयन्नप्रमत्त इत्यादिको विधिः ईयोसमितिः / मनसो गुप्तिमनोगुप्तिः-मनसो रक्षणमातरौद्रध्यानाप्रचारः धर्मध्याने चोपयोगो मनोगुप्तिः / एषणा गवेषणा-ग्रहण-ग्रासभेदात् त्रिधा / तत्रासमितस्य षण्णामपि कायानामुपपातः स्यात्, यतस्तत्संरक्षणार्थमेषणासमितिः समस्तेन्द्रियोपयोगलक्षणा / आदान-ग्रहणं निक्षेपणं-मोक्षणमौधिकोपग्रहिकभेदस्योपधेरादाननिक्षेपणयोः समितिरागमानुसारेण प्रत्यवेक्षणप्रमार्जना। आलोकितपानभोजनमिति प्रतिगेहं पात्रमध्यपतितपिण्डश्चक्षुराधुपयुकेन प्रत्यवेक्षणीयस्तत्समुत्थागन्तुकसत्वसंरक्षणार्थमागत्य च प्रतिश्रयं भूयः प्रकाशवति प्रदेशे स्थित्वा सुप्र(त्य)वेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन वल्गनीयम् / इतिकरणः प्राणवधविरते वनेयत्ताव्यवस्थापनार्थः / एवमेताः पञ्च भावना मुहुर्मुहुर्भावयन्वासयन् बहुलीकुर्वन् सकलामहिंसां पातुं प्रत्यलो भवतीति // सम्प्रति सत्यवचनस्य भावनाः पञ्च प्रतिपादयन्नाहमतस्य पक्ष भा०-सत्यवचनस्यानुवीचिभाषणं क्रोधप्रत्याख्यानं लोभप्र. "भावनाः त्याख्यानं अभीरुत्वं हास्यप्रत्याख्यानमिति // टी-सत्यवचनस्येत्यादि / सत्यम्-अवितथं सद्भूतार्थप्रतिपत्तिकारि, असद्भूतं च विपरीतार्थप्रतिपादनं,प्राणानुपघातशून्यम् / अनुवीचीति देशीवचनमालोचनार्थे वर्तते। भाषणं वचनस्य प्रवर्तनम् / अतोऽयमर्थः-समीक्ष्यालोच्य वचनं प्रवर्तितव्यम् / अनालोचितभाषी कदाचिन्मृषाऽप्यभिदधीत / ततश्चात्मनो लाघववैरपीडाः फलमैहिक, परसत्त्वोपघातश्च नियत इति / तस्मात् समीक्ष्योदाहरणेनात्मानं भावयन्न मृषावचनजनितेनैनसा सम्पृच्यते / क्रोध: कषायविशेषो मोहकर्मोदयनिष्पन्नोऽप्रीतिलक्षणः प्रद्वेषप्रायः / तदुदयाच परवान् वक्ता स्वपरनिरपेक्षो यत्किञ्चनभाषी मृषाऽपि भाषेत / अतः क्रोधस्य प्रत्याख्यानं निवृत्तिरनुत्पादो वा, (तेन) नित्यमात्मानं भावयेत् / एवंच वासयन् सत्यादि न व्यभिचरतीति / लोभः तृष्णालक्षणः कूटसाक्षित्वादिदोषाणामग्रणीः समस्तव्यसनैकराजो जलनिधिरिव दुर्भरः कर्मोदयाविभूतो रागपरिणामस्तदुदयादपि वितथभाषी भवति / अत्र सत्यवतमनुपालयता तदाकारपरिणामः प्रत्याख्येय इति भावनीयम् / भयशीलो भीरुस्तचैहिकादिभेदात् संप्तधा मोहनीयकर्मोदयजनितमुदयाच्च तस्यानृतभापणं सुलभं भवतीत्यभीरुत्वं भावयेत् / अभीरुथ न जातु 'प्रधानमोह ' इति -पाठः /