________________ 44 तवार्थाधिगमसूत्रम् [ अध्यायः 7 उक्तं प्रतं सविधानमणु महच्च, तत्र महाव्रतमधिकृत्य भावनासूत्रम् सूत्रम्-तत्स्थैर्यार्थ भावनाः पञ्च पञ्च // 7-3 // टी०-अणुव्रतस्य चोपरि बन्धवधादिकातिचारपरिहाररूपा वक्ष्यमाणा (अ०७, सू०२०) अपायावद्यदर्शनादिकाश्च सामान्यरूपाः / महाव्रतं चोपभोगा(वर्गा?)भिलाषिभिःप्राणिभिधृतिसंहननपरिहाण्या प्रमादबहुलैः दूरक्षमतस्तत्प्रतिपातपरिहारार्थ भाव्यन्त इति भावनाः / तदित्यनेन पञ्चविधस्येति, सर्वनाम्नाऽनन्तरत्वान्महाव्रतमभिसम्बध्यते / भाष्यकारस्तु यद्यपि सामान्येन व्रतस्येति विवृणोति, तथापि तच्छब्दोपादानसामान्महाव्रताभिसम्बन्धः / अन्ये तु व्याचक्षते-द्वयोरपि व्रतयोन्याय्यः सम्बन्धः। सम्भवति हि श्रावकस्यापि कस्यचिद यथोक्तं भावनाजालमेवं त्वव्याप्तिः स्यात्, व्यापिन्यश्च वतिनो भावना इष्यन्ते / / व्रतानां भावनानां भा०–तस्य पञ्चविधस्य व्रतस्य स्थैर्यार्थमेकैकस्य पञ्च पञ्च सख्या भावना भवन्ति / टी-तस्य व्रतस्य पञ्चविधस्येति पञ्चप्रकारस्य सर्वप्राणातिपातविरत्यादेः स्थैर्यार्थदाळपादनार्थ-स्थिरत्वं प्रयोजनमुद्दिश्य अभ्यस्यन्ते, अनभ्यस्यमानाभिर्भावनाभिर्मलीमसीमवन्त्यनभ्यस्यमानविद्यावन्महाव्रतानीति / एकैकस्येति व्रतस्य / सामानाधिकरण्येन षष्ठी, न समुदिताना पश्चानामपीति // ननु पञ्च पश्चेति वीप्साविवक्षा / यत एकैकस्येति लप्स्यत एव, अन्यथा वीप्सानरर्थक्यं स्यादिति / उच्यते-सामान्यविशेषाभ्यां व्याख्यातृभिः प्रतिपाद्यतेऽर्थः,पञ्चविधस्य व्रतस्येति सामान्येनोपक्रम्य पुनर्विशेषेणैकैकस्येत्याह समुदाये मा भूदिति / पञ्च पञ्चेति वीप्सायां द्विवचनम् / अपरे तु सूत्रमधीयते-तत्स्थैर्यार्थ भावनाः पश्च पञ्चश इति / सूत्रपाठविचारः ते चैवमभिदधति-संख्यावाचिनः प्रातिपदिकाद् वीप्सायां द्योत्यायां "कारकाच्छम्प्रत्ययोऽन्यतरस्या "मिति / द्वौ द्वौं ददाति द्विशो ददातीति वाक्यं वृत्तिश्च / तदेतदनुपपन्नम् / यतः शम्प्रत्ययान्तेन व्रतानि भावना वा सम्बध्येरन, यदि व्रतानि ततः षष्ठयन्तेन सम्बन्ध्यानि पञ्चानां पञ्चानामिति / ततोऽकारकत्वात् षष्ठयाः शम्प्रत्ययो न लभ्यते / अथ भावनाभिसम्बन्धस्ततः पश्च भावना भवन्तीति पञ्चश इति वक्तव्यम् / द्वितीयं पश्चग्रहणं न कर्तव्यम् / तत्स्थैर्यार्थ भावनाः पञ्चश इति पठितव्यम् / एवमुभयथापि न घटते शस्प्रत्ययः / अतस्तत्स्थयोथे भावनाः पञ्च पश्चेति न्याय्यं सूत्रम् // भा०-तद्यथा-अहिंसायास्तावदीर्यासमितिः, मनोगुप्तिः, एषअहिंसायाः पञ्च ___णासमितिः, आदाननिक्षेपणासमितिः, आलोकितपानभोजन मिति॥ भावना १'पञ्चशः' इति घ-टी-पाठः। 2. पूर्वेरनुमतः ' इति क-पाठः / 3 ' समान धिकरणे ' इति -पाठः /