________________ सूत्र 2] स्वोपत्रभाष्य-टीकालङ्कृतम् . भा०---एभ्यो हिंसादिभ्य एकदेशविरतिरणुव्रतं, सर्वतो विरतिर्महावतमिति // 2 // टी-एभ्य इत्यादिना / एभ्य इति प्रस्तुतानि परामृश्य हिंसादीनि सर्वतो व्यवच्छिदमाह-एकदेशविरतिरणुव्रत मिति / सकलप्राणिगणविषया हिंसा, तस्याश्च विरतिर्न सर्वस्याः, किन्तु एकदेश इति एकदेशग्रहणेनैव स्पष्टयति-न सर्वस्मात् प्राणिव्यपरोपणाद् विरतिः, किन्तु एकदेशात् , स्थूलादित्यर्थः / स्थूलसूक्ष्मप्राणिभेदात् सङ्कल्पजारम्भमेदाद् वा / स्थूलान्मृपावादादिति कूटसाक्ष्यदानादि स्थूलः, मर्मादिप्रयोगतः सूक्ष्मः / स्थूलाददत्तादानादिति हठहरणादि स्थूलं यत्रैहिकामुष्मिकाचौर्यदोषागृहिणाम् , सूक्ष्म परिहासतः परकीयपरि(१)लघुतणकाष्ठादिग्रहणं वा / स्थूलान्मैथुनाद् विरमति स्थूलत्वमेकदेशजनितमत्र प्रतीयते स्वदा. रसन्तोषः परदारनिवृत्तिा। स्वदारसन्तुष्टः शेषयोषितो मातृवदनुपश्यति, परदाराभिगमनानिवृत्तः पेरपरिगृहीतयोषितः परिहरति, अपरिगृहीतवेश्यामभिगच्छति / तथा इच्छापरिमाणादन्यतो विरमामीति / केचिन्महाव्रतानुपातात् स्वल्पनतत्वादणुव्रतमिति व्याचक्षते॥ सम्प्रति महाव्रतव्याचिख्यासयाऽऽह-सर्वतो विरतिर्महाव्रतमिति। सर्वत इति / सर्वस्मात् सूक्ष्मात् स्थूलाच प्राणव्यपरोपणाद् विरमामीत्यादि / एवं शेषाण्यपि सर्वतो वाच्यानि / महाविषयत्वान्महाव्रतमित्येतानि पञ्च महाव्रतानि भवन्ति सम्यक्त्वयुक्तानि मूलवाच्यानि // ननु च यथैव मृषादिनिवृत्तिरहिंसाव्रतपालनार्थत्वान्मूलगुणाः, एवं निशीथभोजनविरतिरपि मूलगुणः स्यात् / उच्यते-अहिंसावतपरिपालनार्थत्वादिति समितिभिरनै कान्तः, अपि च महाव्रतधारिण एव तन्मूलगुणः तद्विरहितस्य यस्मान्मूलगुणा एवापरिपूर्णाः स्युः, अतो मूलगुणग्रहणे तद्रहणमाक्षिप्तम् / यथाच सर्वव्रतोपकारि रात्रिभोजनं न तथोपवासादि, अतस्तन्मूलगुणो महाव्रतिनः, शेषमुत्तरगुणः / अणुव्रतधारिणस्तूत्तरगुणो निशाभोजनविरतिराहारत्यागादुपवासवत् तप एव वा तदिति प्रतीतम् / कः पुनर्दोषो रात्रिभोजन इति चेत् एवं मन्यते-उद्गमादिदोषरहितस्य वासरपरिगृहीतस्याभ्यवहारेणान्धसो नक्तं न किल दोष इति / रात्रिभोजन _ एतदयुक्तम् / कालातिक्रान्तस्य प्रतिषिद्धत्वात्, गृहीतस्यानीतालोचितक्षनि : णविश्रान्तिसमनन्तरमेव च भुजेरभ्यनुज्ञानात्, निशाहिण्डने चेर्यापथविशु हेरसम्भवात् , दायकगमनागमनसस्नेहपाणिभाजनाद्यदर्शनात्, आलाकितपानभोजनासम्भवात् / ज्योत्स्नागणिप्रदीपप्रकाशसाध्यमालोकनमिति चेत् तदप्यसत्, अमिसमारम्भनिषेधात, रत्नपरिग्रहाभावात्, ज्योत्स्नायाः कादाचित्कवात्, आगमे तनिपिद्धत्वात, हिंसादिवदनासेवनीयमेव विभावरीभक्तमिति // 2 // "परिग्रहयोषितः' इति ग-पाठः / 2' •पालनातू ' इति पाठः। 'मित्याह ' इति ग-पाठः /