________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 यन् तच्चेतसि सनिवेश्य विवृतं भाष्यकारेण / आस्रवाध्यायवक्तव्यशेपमेव वाऽधिक्रेत्य सप्तमाध्यायमाह / व्रतशब्दः शिष्टसभाचारात निवृत्तौ प्रवृत्तौ च प्रयुज्यते लोके / निवृत्ते चेद्धिसातो विरतिःनिवृत्तिव॑तं, यथा-वृषलान्नं व्रतयति-परिहरति / वृषलान्नान्निवर्तत इति, ज्ञात्वा प्राणिनः प्राणातिपातादेनिवर्तते / केवलमहिंसादिलक्षणं तु क्रियाकलापं नानुतिष्ठतीति तदनुष्ठानप्रवृत्त्यर्थश्च व्रतशब्दः / पयो व्रतयतीति यथा, पयोऽभ्यवहार एव प्रवर्तते नान्योति, एवं हिंसादिभ्यो निवृतः शास्त्रविहितक्रियानुष्ठान एव प्रवर्तते, अतो निवृत्तिप्रवृत्तिक्रियासाध्यं कर्मक्षपणमिति प्रतिपादयति / निवृतिप्रवृत्ती च शासचोदिते, तदनुष्ठानान्मोक्षावाप्तिरिति // ननु च भाष्यकारो निवृत्तिवचनमेव व्याचष्टे व्रतशब्देन, प्रवृत्तिवचनमपीति तदेतत् कथम् ? / अयमभिप्रायो भाष्यकृतः-अन्यतरोपादानेऽन्यतरप्रतीतिः सम्बन्धशब्दत्वाद् भवत्येव पितापुत्रादिवत् / यत उक्तम्-"ज्ञानक्रियाभ्यां मोक्ष" इति / प्राधान्यात् तु निवृत्तिरेव साक्षात् प्राणातिपातादिभ्यो दर्शिता, तत्पूर्विका च प्रवृत्तिर्गम्यमाना / अन्यथा तु निवृत्तिनिष्फलैव स्यादिति / विरतिशब्दस्याथै निरूपयति भा०-विरति म ज्ञात्वाऽभ्युपेत्याकरणम् / अकरणं निवृत्तिरुपरमो विरतिरित्यनान्तरम् // 1 // धी-विरतिर्नामेत्यादिना / विरमणं विरतिः / नामशब्दो वाक्यालङ्कारार्थः / हिंसनं हिंसा-प्राणवियोजनम् / प्राणाश्चेन्द्रियादयस्तत्सम्बन्धात् प्राणिनः एकद्वित्रिचतुःपञ्चेन्द्रियाख्यास्तान् विज्ञानानुसारात् अभ्युपेत्य-श्रद्धाय प्रतिपद्य भावतोऽकरणं विरतिः / ज्ञानश्रद्धानपूर्वकं चारित्रमितियावत / तदेव चाकरणं विवृणोति पर्यायैः-अकरणं निवृत्तिरुपरमो विरतिरित्यनर्थान्तरमिति / चरणस्यैते पर्यायाः / तत्राकरणमिति निवृत्तिप्रवृत्तिक्रियालक्षणं चारित्रं मनोवाकायकृतकारितानुमतिभेदोत्पन्नसप्तचत्वारिंशच्छतविकल्पभावनया परिहारानुष्ठाने, एवं निवृत्त्यादयोऽपि भावनीयाः, पर्यायशब्दैश्च व्याख्यानमसम्मोहाथ प्रदेशान्तरेष्विति॥१॥ तदेतदविशेषचोदितं पश्चतया विषयव्रताभिधानं विरत्याश्रयद्वयविवक्षावशेनासकलकसाभावादुभयथा वेदितव्यमित्याह सूत्रम्-देशसर्वतोऽणुमहती // 7-2 // टी०-देशश्च सर्व च देशसर्वे ताभ्यां देशसर्वतः / विरामार्थापेक्षा पञ्चमी। अणु च महचाणुमहती। कथं पुनर्विरतिसामान्यमेकं सत् द्विधा मिद्यते ? / विवक्षावशेन देशसर्वामिधानाच्चैकत्वादिविवक्षायामेकवचनादिवत् हिंसादिविरतिव्रतप्रस्तावाच्च यथाक्रममभिसम्बन्धः / देशसर्वग्रहण विरत्या सहाभिसम्बध्यते / अणुमहद्ग्रहणं व्रतेन / देशतो विरतिरणुव्रतं, सर्वतो विरतिर्महाव्रतम् / एतमेव सूत्रार्थ भाष्येण स्पष्टयति 1. कृत सप्त. 'इतिक-पाठः। 2' निवर्तन्ते' इति ग-पाठः। तीमतीति' इति क-पाठः / एतमिवस्या' इति उ-पाठः /