________________ सप्तमोऽध्यायः 7 तत्रादिमं भाष्यम् भा०-अत्राह-उक्तं भवता सांतावेद्यस्यास्रवेषु ( अ०६ सू०१३ ) भूतनस्पनुकम्पेति / तत्र किं व्रतं को वा व्रतीति / अत्रोच्यते____टी०-अत्राहोक्तं भवतेत्यादिना सम्बध्नाति भाष्यकारः। सूत्रेषक्तं षष्ठाध्याये सहे. दनीयकर्मास्रवेषु भूतव्रत्यनुकम्पति सकलसूत्रोपलक्षणम्।अथवा यावत् सम्बन्धोपयोगि तावत एवोपादानं, व्रतीति श्रूयते मत्वर्थीयप्रत्ययान्तः। तत्र किं व्रतं को वा व्रतीति प्रश्नेनोपक्रम्यते // ननु च व्रतप्रश्न एव न्याय्यः तत्प्रस्तावात्, तत्परिज्ञानात् तु तत्सम्बन्धे व्रती सुज्ञान एवेति / उच्यते-विशिष्टसम्बन्धख्यापनार्थ व्रतिग्रहणं, वक्ष्यत्युपरिष्टात् “निःशल्यो व्रती" (अ० 7, सू०१३) इति / प्राणातिपातादिविरतयो मायादिशल्यविविक्ता व्रतव्यपदेशमश्नुवते, तथाविधव्रतसम्बन्धाच्च व्रतीति / अत्रोच्यत इति व्रतस्वरूपनिर्णयार्थमाहप्रतव्याख्या सूत्रम्-हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् // 7-1 // ____टी–बतिस्वरूपं त्विदमेव भाष्यमनूद्योपरिष्टात् प्रतिपादयिष्यते / गृह्णीमस्तावद् व्रतान्यथ व्रती क इत्यत्रेति / हिंसादयः कृतद्वन्द्वाः पञ्चम्यन्ताः / पञ्चमी च जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानादपादानलक्षणा, तां च प्रत्येकं हिंसाया इत्यादिना भाष्येण दर्शयति ___भा०-हिंसाया अनृतवचनात् स्तेयादब्रह्मतः परिग्रहाच कायवालानोभि. विरतिव्रतम् / टी-हिंसादयश्च वक्ष्यमाणलक्षणाः। तत्र कषायादिप्रमादपरिणतस्यात्मनः कर्तुः काया दिकरणव्यापाराद् द्रव्यभावभेदेन प्राणव्यपरोपणं हिंसा / प्रागभिहितहिंसादीनां व्याख्या सामान्यलक्षणयोगे सति सद्भुतनिहवासद्भूतोद्भावनविपरीतकसावधादि मृषावचनम् / परपरिगृहीतस्य स्वीकरणमाकान्त्या चौर्येण शार्खनिषिइस वा स्तेयम् / पूर्वलक्षणयोगान्मोहोदये सति चेतनाचेतनस्रोतसोरासेवनमब्रह्म / सचित्ताचित्तमिश्रेषु द्रव्यादिषु शास्त्राननुमतेषु ममत्वं परिग्रहः / चशब्दः समुच्चयार्थः / एभ्यो हिंसा. दिभ्यः कायवामनोभिर्विरतिव्रतम् / विरतिः-निवृत्तिः // ननु चासूत्रितत्वात् कायादिवयमनुपादेयं भाष्येण / नायं दोषः / आत्मना हि विरतिः / सा च करणमवश्यंतयाऽपेक्षते / तच्च कायायेव योग्यम् / अथवा प्रमत्तयोगादित्यत्र योगग्रहणलक्षणसूत्रे सर्वव्रतविशेषणार्थ 1 'सद्वेद्य. ' इति घ-पाठः / 2 'हिंसादय ' इति ग-ङ-पाठः / 3 ' शास्त्र प्रतिषिद्धस्य ' इति -पाठः / 4 'करणावश्यतया ' इति ग-पाठः /