________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 6 णामयोगिनोऽन्तरायाभिधानस्य कर्मण आस्रवो भवति / एतदेव भाष्येग स्पष्टयति-दानादी . नामित्यादि / दानमादिर्येषां ते दानादयो दानलाभभोगोपभोगवीर्यादानलाभादीनां __ ख्याः / तत्र दानं विशिष्टपरिणामपूर्वकं स्वस्य परस्वत्वापादनम् / तदेव व्याख्या गृह्यमाणं प्रतिग्रहीत्राऽऽदेयं लाभ उच्यते / भोगो मनोहारिशब्दादिविषयानुभवनम् / उपभोगोऽन्नपानवसनाद्यासेवनम् / वोयमात्मपरिणामो विशिष्टचष्टालक्षणः / एषां दानादीनां विघ्नकरणं येन येनोपायेन न दत्ते तं तमुपायमापादयति दातुः, एवं येन येनोपायेन न लमते लिप्सुस्तथा भोगोपभोगानुभवनसमर्थो येन येनोपायेन न भवति यथा चास्य-वीर्यम्-उत्साहः-पराक्रमो न भवति तथा तथाऽनुतिष्ठतेऽन्तरायस्य कर्मण आस्रवो भवति / इतिशब्दो विघ्नकरणविशेषप्रदर्शनार्थः // अधुना सकलास्रवप्रकरणपरामर्शद्वारेणोपसंहरत्यध्यायार्थम् एते साम्परयिकस्येअध्यायोपसंहारः .. त्यादिना / एते तत्प्रदोषनिहवादयः संसारभ्रमणकारणस्याष्ट * विधस्य ज्ञानावरणादेरन्तरायपर्यवसानस्य कर्मणः पृथक् पृथग् विवेकिना पुनरु(पृथगुः)क्ततया आस्रवविशेषाः सामान्यास्रवापेक्षया विशेषा भवन्ति / इतिशब्दोऽत्राभिधित्सितसंक्षिप्तार्थपरिसमाप्ताविति // 26 // // इति श्रीतत्त्वार्थसूत्रे भाष्यसंयुक्ते भाष्यानुसारिण्या तत्त्वार्थटीकायाम् आस्रव प्रतिपादनपरः षष्ठोऽध्यायः समाप्तः // 6 // M