________________ सूत्रं 23 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 37 चये / एतेषु पग्मा भावविशुद्धा भक्तियथागम्भयमभिगमनबन्दनपर्यपासनयथाविहितकमपूर्वकाध्ययनश्रवणश्रद्धानलक्षणा तीर्थकरनामकर्मण आम्रपः / . भा०-सामायिकादीनामावश्यकानां भावतोऽनुष्ठानस्यापरिहाणिः / सम्य. ग्दर्शनादेर्मोक्षमार्गस्य निहत्य मानं करणोपदेशाभ्यां प्रभावना / टी--सामायिकादीनामित्यादि। अरक्तद्विष्टः समः तस्य आयो-लाभ:-चरणदर्शनप्राप्तिः स प्रयोजनमस्येति सामायिकं सकलसावद्यविरति लक्षणं प्रतिक्रमणकादि(?)तदादिर्येषां आवश्यकानां (चतुर्विंशतिस्तवादीनां) तानि सामायिकादीनि तेषां सामायिकादीनां आवश्यकानां अवश्यमहोरात्राभ्यन्तरे कर्तव्यान्यावश्यकानि-अवश्यतयाऽनुष्ठेयानि। तानि च सप्तदशविधानसंयमविषयव्यापाररूपत्वादनेकप्रकाराणि इच्छामिथ्यातथाकारादीनि तेषां भावतोऽनुष्ठानस्यापरिहाणिः।भावत इति तदुपयोगानन्यत्वकथनम्। अनुपयुक्तस्य हि सर्वक्रियानुष्ठानं द्रव्यमात्रत्वाच्छुभवन्धनिराफलशून्यमेव प्रवचने च घुष्यते ततः सद्भावावहितचेतसो यदनुष्ठानकरणं तस्यापरिहाणियथाविहितकालासेवनमन्यूनानतिरिक्ततयेत्येवमेषा आवश्यकापरिहाणिस्तीर्थकरनामकर्मण आस्रवो भवति / सम्यग्दर्शनेत्यादि / तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं सकलगुणाधारस्तदादिर्यस्यासौ तदादिस्तस्य सम्यग्दर्शनादेर्मोक्षमार्गस्य सकलकर्मक्षयोत्तरकालमात्मनः स्वात्मन्यवस्थानं मोक्षस्तस्य मार्गः-पन्थाः प्राप्त्युपायो ज्ञानक्रियालक्षणस्तस्य प्रभावना-प्रख्यापनं-प्रकाशनं / केन प्रकारेणेत्याह-निहत्य मानं करणोपदेशाभ्यामिति ।मानः-अहङ्कारः। सच जात्यादिस्थानोद्भूतः श्रेयोविघातकारी, यथाऽऽह (प्रशमरत्यां श्लो० 27) "श्रुतशीलविनयसं-दूषणस्य धर्मार्थकामविघ्नस्य / मानस्य कोऽवकाशं, मुहूर्तमपि पण्डितो दद्यात् // 1 // " .. तमेवंविधं मानं न्यकृत्य करणं-स्वयमनुष्ठानं श्रद्दधतः कालविनयबहुमानाद्यासेवनं मूलोत्तरगुणप्रपश्चानुष्ठानं चेति / उपदेशोऽन्यस्मै प्रतिपादनं बहुविधविद्वज्जनसमितिषु स्याद्वादादिन्यायावष्टम्भेन प्रसभमपहृत्य प्रतिभामेकान्तवादिनामहत्प्रणीतस्यानवद्यस्य सर्वतोभद्रस्य मार्गस्यैकान्तिकात्यन्तिकनिरतिशयाबाधकल्याणफलस्योचैः प्रकाशनं प्रभावना / सा खल्वेषा तीर्थङ्करनामकर्मण आस्रवः / __ भा०-अच्छासनानुष्ठायिनां श्रुतधराणां बालवृद्धतपस्विशैक्षकग्लानादीनां घ सङग्रहोपग्रहानुग्रहकारित्वं प्रवचनवत्सलत्वमिति / एते गुणाः समस्ता व्यस्ता वा तीर्थकरनाम्न आस्रवा भवन्तीति // 23 // ___टी०-अर्हदित्यादि / वन्दननमस्कारपूजासत्कारार्हाः अर्हन्तस्तेषां शासतम्-उपदेश आगमाख्यस्तद्नुष्ठायिनाम्-आगमविहितक्रियानुष्ठायिनां, श्रुतधराणामित्यनेन स्वयमधिगतज्ञानानामिति प्रतिपादयति, परप्रत्ययानुष्ठायित्वं निषेधयति, अधीतप्रवचनार्थो विदितो १०क्षग्लानादीना' इति.घ-पाठः /