________________ तत्वार्थाधिगमम् त्रम् [ अध्यायः 6 व्यापारः / तत्परिणामितेतियावत् / वाचनाप्रच्छनाऽनुप्रेक्षाऽऽनायधर्मोपदेशैरभ्यसनं तीर्थकरनामकर्मण आस्रवः // भा०-संवेगश्च। यथाशक्तिस्त्यागस्तपश्च / सङ्घस्य साधूनां च समाधिवे. यावृत्त्यकरणम् / अर्हत्स्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिः / टी.-संवेगश्चति / अभीक्ष्णमिति सम्बध्यते / चशब्दः समुचितौ / संवेसंवेगस्य व्याख्या जनं संवेगो भीतिर्विचलनं वा संसारदुःखाजातिजरामरणस्वभावात् प्रियविप्रयोगादेश्च भयपरिणामः प्रतिक्षणं जगत्कायानित्याशुचित्वादिचिन्तनाच सांसारिकसुरोप्वनमिलापस्तत्प्रवणपरिणामाद् विचलनं संवेगः / स चाभीक्ष्णं तादृशः परिणामः समुपजायमानस्तीर्थकरनामकर्मण आस्रवः / यथाशक्तिः-सामर्थ्य-सत्त्वोकपः,यथा स्वानुरूपा शक्तिर्यथाशक्तिः तत्पूर्वकस्त्यागः स्वानुरूपशक्त्यपेक्षः, स्वस्य न्यायार्जितस्यानुकम्पानिर्जितात्मानुग्रहालम्बनं भूतेभ्यो विशेषतस्तु विधिना यतिजनाय दानं-त्यागस्तीर्थकरनामकर्मण आस्रयः / तपश्चेति / यथाशक्तिरित्यभिसम्बध्यते / कर्मणस्तापनाच्छोषणात् तपः / तद् द्विधा, अन्तर्बहिर्भेदात् / पुनरेकै षोढा प्रायश्चित्तादिभेदादनशनादिभेदाच / तत् स्वसामथ्योपक्षमनुष्ठीयमानं लोकपतिपूजाभिलापतृष्णानिरपेक्षेण चेतसा तीर्थकरनामकमेण आस्रवः / सङ्घः-समूहः सम्यक्त्वज्ञानचरणानां तदाधारश्च साधादिश्चतुर्विधस्तस्य समाधानस्वस्थता-निरुपद्रवत्वं समाधिस्तस्य करणं-जननम्-उत्पादनं तत् करोति येन ज्ञानदर्शनचरणानां वृद्धिर्भवति दिवसमनाबाधाश्च साधुसंयती, देशयतिपुरुषयोषितः / ज्ञानदर्शनचारित्रलक्षणाभिः पौरुषेयीभिः शक्तिभिर्मोक्षं साधयन्तीति साधवः / तेषां च वैयावृत्त्यकरण व्यावृत्तः-तत्कार्यानुष्ठानप्रवणस्तस्य व्यावृत्तस्य भावो वैयावृत्त्यं, साधनांमुमुक्षूणां प्रासुकाहारोपधिशय्यास्तथा भेषजविश्रामणादिषु पूर्वत्र च व्यावृत्तस्य मनोवाक्कायैः शुद्धः परिणामो वैयावृत्त्यमुच्यते / चशब्दः समुच्चये / अथवा सङ्घभट्टारकस्य समाध्युत्पादनं भावः-चित्तपरिणामः परमार्थभावस्तस्य विशुद्धिः-निमेलता / अथवा परमा चासौ भावविशुद्धिश्च तद्युक्ता भक्तिः स्वगुणदोषाकृष्ट पमस्तमुरासुरपुरुषेश्वरेष्वचिन्त्यसामर्थेषु सन्मार्गोपदेशात् परमोपकारिषु प्रकृष्टमनः िणामशुद्धिपूर्षिका भक्तिः सद्भूनातिशयोकीर्तनवन्दनसेवापुष्पधूपगन्धाभ्यर्चनायतनप्रतिमाप्रतिष्ठापनस्नपनविधिरूपा तीर्थकरनामकर्मण आस्रवः / पञ्चविधाचारानुष्ठानाद् यतिजनावरणीयोपदेशाद् वाऽऽचार्या धर्मोपदेशदीक्षाव्रतोपदेशदिग्गचका वा भवन्त्याचार्याः / अत्रैव श्रुतवाचनाचार्यत्वादुपाध्यायग्रहणम् / अङ्गानङ्गप्रकीर्णकाधनेश्रुततदर्थोभययोगाद बहुश्रुताः / प्रोच्यन्तेऽनेन जीगदयः पदाथा इति प्रवचनम्-आगमः-श्रुतज्ञानम् / चशब्दः समु 'शक्तितस्त्यागः' इति क-पाठः। २'निर्जरात्मा.' इति -पाठः /