________________ 35 सूत्रं 23.] स्त्रोपजभा-य-टीकालङ्कृतम् - सूत्रम्-दर्शनविशुद्धिविनयमम्पन्नता शीलवतेष्वनतिचारोऽनीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घमाधुर्ममातीर्थकरनाम- धिवैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचन भक्तिरावश्यकर्मण आस्त्रयाः कापरिहाणिर्मार्गप्रभावना प्रवचनात्सलत्वमिति तीर्थ कृत्त्वस्य / / 6-23 // . भा०-परमप्रकृष्टा दर्शनविशुद्धिः / विनयसम्पन्नता च / शीलवतेष्वात्य. न्तिको भृशमप्रमादोऽनतिचारः / अभीक्ष्णं ज्ञानोपयोगः। टी-परमप्रकृष्टा दर्शनविशुद्धिरित्यादि भाष्यम् / परममित्यतिशयेन सुष्छु प्रकृष्टाप्रकर्षपर्यन्तवर्तिनी परित्यक्तशङ्कादिदोषा / शङ्कादयश्च वक्ष्यमाणाः (अ० 7, मू०१८) सम्यग्दर्शनमलाः। का पुनरसौ परमप्रकृष्टत्याह-दर्शनविशुद्धिरिति / " तत्त्वार्थश्रद्वानं सम्यग्दर्शनं" (अ० 1, मू०२) उक्तलक्षणविधानं दृष्टिः-दर्शनं तत्त्वविषया रुचिः-प्रीतिः जीवादिषु प्रत्यया. वधारणं तस्य दर्शनस्य नाना(वि)शुद्धिः-निर्मलता यथा नाना चित्र विचित्रमिति, क्षायोपशमिकोपशमिकक्षायिकाणां सम्यग्दर्शनानां यथास्वं नाना शुद्धिर्विशुद्धिस्तीर्थकरनामकर्मण आस्रवः। विनयसम्पन्नता चेति / विनीयतेऽनेनाष्टप्रकारं कर्मेति विनयः। स च ज्ञानदर्शनचारित्रोपचा नरभेदेन चतुर्धा / तत्र ज्ञानविनयः कालविनयबहुमानोपधानादिः। दर्श ""नविनयो निःशङ्कनिःकाशादिभेदः। चरणविनयः समितिगुप्तिप्रधानः। उपचारविनयोऽभ्युत्थानासनप्रदानाञ्जलिप्रग्रहादिभेदः / एवंविधेन विनयपरिणामेन परिणतः कर्ता विनयसम्पन्न उच्यते, तद्भावो विनय सम्पन्नता / सा च तीर्थकरनामकर्मण आस्रवः / 'चशब्दः समुच्चयार्थः / तथा शीलवतेष्वात्यन्तिको भृशमप्रमादोऽनतिचारः / शीलमुत्तरगुणाः पिण्डविशुद्धिसमितिभावना[दयः] प्रतिमाभिग्रहलक्षणा मुमुक्षोः समाधिहेतुत्वात् शीलशब्दाभिधेयाः / व्रतग्रहणात् पञ्च महाव्रतानि रजनीभक्तविरतिपर्यवसानान्याक्षिप्तानि / शीलानि च व्रतानि च शीलवतानि / तेष्विति तद्विषयः / आत्यन्ति ::-अत्यन्तभवः संयमः प्रतिपत्तिकालादारभ्य यावदायुषः क्षयस्तावदविश्रान्त्या भवत्यात्यन्तिकोऽप्रमादः सम्बध्यः / भृशमिति प्रकर्षवचनः। प्रकृष्टोप्रमादो भृशमप्रमादः। विकटेन्द्रिय विकथा-कषाय-निद्रालक्षणः पश्चधा प्रमादः। अनेन ह्याविष्टो जीवः कार्याकार्यविमुखत्वादाधाकर्मादि प्राणातिपातादि वा परिहतुमक्षमो भवति / न प्रमादोऽप्रमादः / प्रमादपरिवजेनमप्रमत्तता / अनतिचार उच्यते-अतिचरणमतिचारः-स्वकीयागमातिक्रमः / नातिचारोऽनति चारः / उत्सर्गापादात्मकसर्वज्ञप्रणीतसिद्धान्तानुसारितया शीलव्रतविषयमनुष्ठानमित्यर्थः / एतच्च तीर्थका नामकर्मण आस्रवः / अभीक्ष्णं ज्ञानोपयोग इति / अभीक्ष्णं मुहुर्मुहुः-प्रतिक्षणं ज्ञानं-द्वादशाङ्गप्रवचनं प्रदीपाङ्कुशप्रासादप्लवस्थानीयं तत्रोपयोगा-प्रणिधानम् / सूत्रार्थोभयविषय आत्मनो