________________ तत्वार्थाधिगममुत्रम् [ अध्यायः 6 टी-कायवाङ्मनोयोगवक्रतेत्यादिना / कायादयः कृतद्वन्द्वास्तेषां वक्रताकायादिगतो मायाव्यपहारः / सम्यरु प्रतिपत्तौ तद्विपरीतप्रतिज्ञापनव्यापारो विसंवादनमशुभनामकर्मण आस्रवः / कायस्य तावत् कुब्जवामनविक(कृ)ष्टाङ्गप्रत्यङ्गावयवाक्षिनिकोचननासाभङ्गमलव्याधिविदूषकस्त्रीपुरुषभृत्यभृतकस्कन्दरुद्रराजर्षिविशेषावतारैरैसद्भावोद्भावनं वक्रता / वाग्वक्रता यथा लोटः स्वभाववाग्विषयोपरतभावः गौडमालवार्णवविषयवासिनामायाणामनार्याणां च तद्भावो विडम्बनापरता / मनोवक्रताऽन्यदेव मनसि व्यवस्थाप्य लोकपतिपू. जासत्काराद्याजिहीषा विभ्राणोऽन्यद् वाचा समाचरत्यन्यत् कायेन चेष्टते। एवं स्वविषयैव योगवकता। विसंवादनं तु परविषयम् / तच्च विसंवादनं निर्दिदिक्षितस्यार्थस्यावस्थितस्वभावस्यान्यथाकरणं पितापुत्रयोवो प्रीतिभाजोः परस्परं प्रीतिभेदकरणं वा विसंवादनम् / एवमेते कायादिविकल्पा नानोऽशुभस्यास्रवा भवन्ति / अनुक्तसमुच्चयार्थो वा चशब्दः / मिथ्यादर्शनमायाप्रयोगपिशुनास्थिरचित्तताकूटमानतुलाकरणसुवर्णादिप्रतिरूपकत्वानुष्ठानकूटसाक्ष्यदानाङ्गोपाङ्गच्यावनवर्णगन्धरसस्पर्शाद्यन्यथापादनयन्त्रपञ्जरक्रियानिकृतिभूयिष्ठतापरनिन्दात्म प्रशंसामारणानृतवचनपरद्रव्यादानमहारम्भपरिग्रहोज्ज्वलषरूपमदपरुषाअशुमनाम्न आप्रवाः सभ्यप्रलापाकोशमौखर्यसौभाग्योपघातवशीकरणप्रयोगपरकुतूहलोत्पाद नालङ्कारदानचैत्यव्यपदेशगन्धमाल्यधूपादिचार्यविडम्बनोपहासेष्टकापाकदावामिप्रयोगप्रतिमायतनप्रतिश्रयारामोद्यानविनाशनतीवकषायपापकर्मोपजीवनादीनि चाशुभस्य नाम्न आस्रवा इति // 21 // अथ शुभनामकर्मणः क आस्रव इत्युच्यते सूत्रम्-विपरीतं शुभस्य // 6-22 // भा०-एतदुभयं विपरीतं शुभस्य नाम्न आस्रवो भक्तीति // 22 // किञ्चान्यत् ___टी०–विपरीतमिति / एतदेवोभयमनन्तरसूत्रोक्तमास्रवद्वयं विपरीतं सदवक्रता योगानां सम्यक प्रयोग आर्जवयुजस्त्वयं, अविसंवादनं वाऽविप्रलम्भनम्-अविप्रतारणं परस्परविपरीतग्रहणवदेव / चशब्दः समुच्चितौ / वैपरीत्यग्रहणमपि धार्मिकदर्शनसम्भ्रमसंसारभीरुताप्रमादवर्जनसद्भावार्पणासम्यक्त्वार्जवादयः शुभस्य नामकर्मणो मनुष्यगत्यादेः सप्त त्रिंशदुदयस्यास्रवा भवन्तीति // 22 // किञ्चान्यदित्यनेन सम्बन्धमाचष्टे / अन्यच्चानुक्तं विशेषेण तीर्थकरनाम, सामान्येन शुभनामकर्मण आस्रवे प्रतिपादितेऽप्यचिन्त्यानुपमशक्तिप्रभावस्य त्रिप्रकारातिशयविशेषत्रैलोक्यविभूतिविजयिनस्तीर्थकरनाम्न इमे आस्रवा वेदितव्याः१. रसद्भावनं ' इति ङ-पाठः / 2 'गोपिनास्थिर०' इति स्त्र-ग-पाठः / / ' प्रहादू जलवेषः' इति ङ-पाठः /