________________ 3 सूत्र 21 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् सम्पातव्यथितविग्रहः, ग्रीष्मेऽपि तीवतिग्मांशुगभस्तिव्यूहसंस्पृश्यमानसर्वाङ्गोऽपनीतातपत्राणः। चशब्दः समुचितौ / अनुरोधाचेति / अनुरोधात् दाक्षिण्यं प्रीतिर्वोच्यते / मित्रस्वजनादेरापदि जातायामपरो यदा तदनुरोधात् प्रीतेर्वा सीददङ्गयष्टिविवशोऽकुशलनिरोधमातिष्ठते अरतिपरिगतवपुष्कचतुर्विधाहारविरुचिपरिणामो देवस्यायुष आस्रवो . वर्तत इति, द्वाभ्यां रागद्वेषाभ्यां मिथ्यादर्शनसहवर्तिभ्यामाकलितो बालः सत्त्वावबोधपराङ्मुखः / तस्य पर्यायकथनं करोति-बालो मूढ इत्यनन्तरम् / मूढो विचित्तः / अतत्वे तत्त्वाभिनिवेशप्रवृत्तियथावस्थितज्ञेयाननुकूलज्ञानः / शेषमितिशब्दादि प्राग् व्याख्यातम् / तस्य तपो बालतपः इति / अनेन षष्ठीसमासप्रदर्शनेन समानाधिकरणनियमाभावं दर्शयति / बालं च तत् तपश्चेति बालतपः / बालं-असमर्थ सन्मार्गप्रतिपादने सकलकर्मक्षये वा / तथा बालस्यापि मूढस्य यत् तपस्तद् बालतप इति / कीदृक् पुनस्तदित्याह-तच्चाग्निप्रवेशेत्यादि / अग्निप्रवेशः-अग्नौ धर्माय पतनम् / मरुभृगुः नदीगिरितटाद्यधोदेशो वा तत्र पतनं प्रपातः / जलप्रवेशो-जले निमजनम् / आदिग्रहणात् बलायवशासिशल्योल्लयनगृध्रभक्षणशस्त्रपाटनविषगरमरणादिपरिग्रहः / तदेवमित्यादिना समस्तमेव सूत्रार्थमुपसंहरति / तदिति तस्मात् / एवम्-उक्तेन प्रकारेण सरागसंयमसंयमासंयमादीनि चेति / सरागसंयमस्य प्राधान्यख्यापनार्थ भेदेनोपादानम् / इतरेषां निकृष्टत्वाद् यथाक्रम समस्योपादानम् / आदिग्रहणादकामनिर्जराबालतपसी प्रार्थी / चशब्दः समुच्चयार्थः / देवस्यायुष आस्रवा भवन्तीति पर्यन्तवर्तिनेतिकरणेन देवायुरास्रवविस्तारो द्रष्टव्यः / कल्याणमित्रसम्पर्कधर्मश्रवणगौरवतपोभावनापात्रदानमरणप्रत्यासन्नवर्तिशीततपनलेश्यापरिणामाव्यक्तसामायिकविराधितसम्यग्दर्शनादि च देवायुष आस्रवा इति // 20 // भा०-अथ नाम्नः क आस्रव इति ? / अत्रोच्यते टी-एवं ज्ञानदर्शनावरणवेद्यमोहायुषां यथास्वमानवाभिधानमवसायानन्तरं पर आह-अथ नाम्नः क आस्रवः / इतिकरणः प्रश्नपरिसमाप्तौ / अत्र प्रश्ने यथावसरविरचितेऽभिधीयते तस्य प्रकारद्वैविध्यावस्थानादशुभनामकर्मास्रवस्तावदभिधीयते // सूत्रम्-योगवक्रता विसंवादनं चाशुभस्य नाम्नः // 6-21 // टी-योगः प्राग् व्याख्यातः / शक्तिरूप आत्मनः करणविशेषः कायवाङ्मनोलक्षणस्तद्गता कौटिल्यप्रवृत्तिः स्वयमेव योगवक्रताऽनार्जवप्रणिधानं मायाचित्तं योगविपयोस इत्यनान्तरम् / विसंवादनं सत्यवदभ्युपगमे तदपह्नवोपाये व्युत्थापनम् / चशब्द उभयविशेषसमुच्चयार्थः / अशुभं यन्नामकर्म नरकगत्यादि चतुस्त्रिंशद्भदं च तस्यास्रवो भवति / भाष्येण तदेव स्फुटयति भा०-कायवाङ्मनोयोगवक्रता विसंवादनं चाशुभस्य नाम्न आस्रवो भवतीति // 21 // १'धायावसाया.' इति ख-पाठः।