________________ 32 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 6 टी-सरागसंयमादयश्चत्वारः कृतद्वन्द्वाः सूत्रेणोपात्तास्ते खल्बमी दैवस्यायुष आस्रवा भवन्ति, प्राक तेन भाष्यकारेणोपन्यस्ता एव, न व्याख्याताः सवेद्यास्रवप्रस्तावे / अधुनातु स्वयमेव प्रपञ्चतोव्याचष्टे--संयमो विरतिव्रतमित्यादिना भाष्येण / सम्पूर्वाद्यमेभोवसाधनम् / संयमनं संयमः-सम्यग्रज्ञानपूर्विका विरतिः-प्राणातिपातादिपापस्थानेभ्यो निवृत्तिः। नियमो व्रतमित्यनान्तरम् / रागः-संज्वलनकपायस्तत्सहवर्ती सरागस्तस्य संयमः सरागसंयमः। इतिकरणो नियमनिवृत्त्याधनेकपर्यायोपलक्षणार्थः / अनर्थान्तरमित्यनेनैकार्थाभिधायित्वं सूचयति पर्यायशब्दानाम् / कतिप्रकारं पुनस्तद् व्रतं किंलक्षणं चेति पृष्टे इदमाह-हिंसानृतेत्यादि / हिंसादयः पञ्च कृतद्वन्द्वाः पञ्चमीबहुवचनेन निर्दिष्टाः / पञ्चमी च विरामार्थानां प्रयोगेऽभिहिता / हिंसादिभ्यो विरमणं यत् तद्व्रतमित्येवं वक्ष्यते--व्याख्यास्यते सप्तमाध्यायादौ / इतिशब्द एवमित्यस्यार्थे / एवमेष सरागसंयमो दैवस्यायुष आस्रवो भवति // __भा०-संयमासंयमो देशविरतिरणुव्रतमित्यनर्थान्तरम् / देशसर्वतोऽणुमहती इत्यपि वक्ष्यते ( अ० 7, मू० 2 ) // अकामनिर्जरा पराधीनतयाऽनुरोधाचाकुशलनिवृत्तिराहारादिनिरोधश्च / / बालतपः / बालो मूढ इत्यनर्थान्तरम् / तस्य तपो बालतपः। तचाग्निप्रवेशमरुत्प्रपातजलप्रवेशादि / तदेवं सरागसंयमसंयमासंयमादीनि च देवस्यायुष आस्रवा भवन्तीति // 20 // ___टी.-संयमासंयमः कुतश्चित् केनचिदाकारेण निवृत्तिः कचित् प्रवृत्तिः, स्थूलप्राणिविषयसंकल्पकृतप्राणव्यपरोपणनिवृत्तिमेव प्रतिजानीते गेही, न त्वारम्भजप्राणिप्राणव्यपरोपणविरमेऽपि संगिरते / तस्यैवंविधस्य संयमासंयमस्य पर्यायानाचष्टे-देशविरतिरणुव्रतमित्यनर्थान्तरम् / सम्पूर्ण प्राणातिपातायेकदेशो देशः स्थूलात् प्राणातिपातान विरमणे सति / एवमन्यत्रापि द्रष्टव्यम् / प्रपञ्चस्तु वक्ष्यते सप्तमाध्याये / अणु च तद् व्रतं च अणुव्रतम् / अणु-स्तोकं देशनिवृत्तिव्रतम् / इतिकरणेनागारिधर्मादिपर्यायाक्षेपः। एतच्च किमिहैव सकलं व्याख्यायते ? नेत्याह-देशसर्वत इत्यादि / देशतो विरातिरणुव्रतं सर्वतो विरतिर्महाव्रतम् / एवं वक्ष्यतेमणिप्यते सप्तमेऽध्याये एव / संक्षेपतश्चैव दैवायुषः संयमासंयम आस्रवः / काम इच्छा प्रेक्षापूर्वकारिता तदर्थोपयोगभाजो या निर्जरा सा कामनिर्जरा। निर्जरा-कर्मपुद्गलपरिहाणिः, न कामनिर्जरा अकामनिर्जरा, अनभिलपतोऽचिन्तयत एव कर्म पुद्गलपरिशाटः / सा च पराधीनतयाऽनुरोधाचाकुशलनिवृत्तिराहारादिनिरोधश्च / अकुशलं धावनवल्गनप्लवनलवनावरोहणकूर्दनस्फोटनादि, तत् तु बलवता गृहीतो निगडादिसंयतः कर्तुमसमर्थः, न च रौद्राध्यवसायी, न च प्राणातिपातादिभ्यो निवृत्या, नापि तेषु प्रवृत्तः, परवशत्वादनास्वादितचतुर्विधाहारः / आदिशब्दाच्छिशिरकाले निरावरणदेशव्यवस्थापितोऽपहतप्रावरणः शीत१०धमेतद्भाव.' इति क-पाठः / 2. विरमणं' इति प्रतिभाति / 3 'आदिग्रहणात् ' इति जु-पाठः।