________________ स्त्रे 19-20 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् किमेत एवास्रवा नारकादीनामप्यन्येऽपि सन्ति / सन्तीत्याह सूत्रम्-निःशीलवतत्वं सर्वेषाम् // 6-19 / / भा०-निःशीलवतत्वं च सर्वेषां नारकतैर्यग्योनमानुषाणामायुषामास्रवो भवति / यथोक्तानि च // 19 // टी-नि अभाववचनः, शीलम्-उत्तरगुणसम्पत् तदभावानिःशीलः,प्राणातिपातादिनिवृत्तिव्रतानि तद्रहितो निव्रतः / भावप्रत्ययः प्रत्येकमभिसम्बध्यते / निःशीलत्वं निव्रतत्वं च सर्वेषां नारकतैर्यग्योनमानुषाणां यदायुस्तस्यास्रवो भवति / चशब्दात् पूर्वोक्तहेतुकलापोऽपेक्ष्यते / एतदेव भाष्येण स्फुटयति-निःशीलवतत्वं चेत्यादिना / शीलवतयो विः शीलवतत्वम्-आत्मनस्तथाविधः परिणामः तदभावो निःशीलवतत्वम् / सर्वेषामित्यविशेषप्रसङ्गेऽभिहितान्येव सम्बनिन्नाह / नारकतैर्यग्योनिमानुषाणामायुषामानवो भवति / नारकादित्रयायुषामेष चास्रवः, यथोक्तानि चेति चशब्दं व्याचष्टे-यथा यस्य नारकादिश्यायुषस्य पदम् (?) उक्तानि बढूवारम्भपरिग्रहा मायाऽल्पारम्भपरिग्रहस्खभावमार्दवा - वकारणानीति // 19 // . अथ देवमप्यायुः सर्वशब्देन किं नाक्षिप्यते ? / भोगभूमिजास्तु मनुजा योषितो वा मिथ्यादृष्टयो निःशीलव्रता अपि मृत्वा देवेषूत्पद्यन्ते, न खलु तेषामणुव्रतमहाव्रतबालतपोऽकाम निर्जरासम्यग्दर्शनानां कश्चिदेवायुषो हेतुरस्ति, अथ च मरणानन्तरं देवभूयमासादयन्तीत्यवश्यतया कश्चिद् देवायुष आस्रवो वाच्यः / स च नान्यो निःशीलवतत्वादिति / ते हि शीलव्रतरहिताः प्राणातिपातादिषु न प्रवृत्ता न निवृत्तास्ततो मध्यवर्तिना सूत्रेणावश्यं देवायुरपेक्ष्यमेव, एवंविधं च भाष्यं नास्ति, अतो विदुषोपकल्पव्याख्या यथागमं कार्येति // भा०-अथ देवस्यायुषः क आस्रव इति ? / अत्रोच्यते टी०-अथेत्यादि सम्बन्धग्रन्थः / आस्रवोऽधिकृतमूत्रनारकतैर्यग्योनमानुषायुषामास्रवोऽभिहितः, अनन्तरं दैवस्यायुषो वाच्यः, तत्रानन्तर्यमथशब्देन प्रतिपादयति-देवानामिदं देवमायुस्तस्य क आस्रवः 1 इतिकरणः प्रश्नपरिसमाप्तेरवद्योतकः / अत्र-पृष्टेऽभिधीयतेसूत्रम्-सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दवस्य / / 10 / दैवस्य // 6-20 // . भा०–संयमो विरतिव्रतमित्यनर्थान्तरम् / हिंसामृतस्तेयाप्रमपरिग्रहेभ्यो विरतिव्रतमिति वक्ष्यते ( अ० 7, सू० 1) // 1 'स्पष्टयति' इति ङ-पाठः / 2 ‘प्रदं ' इति क-पाठः। ३.पयुज्य व्याख्या ' इति पाठः।