________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 6 वतो बहुलीकृता नारकायुष आस्रवाः / एत एव प्रपञ्च्यमाना भेदमने प्रतिपद्यन्ते, मिथ्यादृष्टया श्रेष्ठाचारता गिरिराजिशैलस्तम्भकीचकडङ्गग्रन्थिकृमिरागसदृशकोपादिकषायता परपरितापकरप्रणिधानवधबन्धनाभिनिवेशानृतवचनप्रस्वादनाविरताविरतमैथुनोपसेवास्थिरवैरावशेन्द्रियनिरनुग्रहस्वाभाव्यकृष्णलेश्यापरिणामरौद्रध्यानान्यास्रवप्रपञ्चो नारकस्यायुषः // 16 // उक्तो नारकस्यायुषो हेतुस्तत्समनन्तरं तैर्यग्योन्यायुष उच्यते सूत्रम्-माया तैर्यग्योनस्य // 6-17 // भा०-माया तैर्यग्योनस्यायुष आस्रवो भवति // 17 // टी०-माया शाठयं वक्रता मनोवाकायिकी च कंकुणग्रन्थितुल्या / तिर्यश्चःपृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाः नारकमनुष्यदेववर्जास्तेषां योनिस्तिर्यग्योनिः, योनिः-उत्पत्तिस्थानं,तत्र भवं तैर्यग्योनमायुस्तस्यास्रवो जायते / माया मिथ्यात्वावष्टम्भाधर्मदेशनारम्भपरिग्रहकूटकर्मनीलकापोतलेश्यापरिणामार्तध्यानोन्मार्गप्रज्ञापनामार्गप्रणाशसातिचारव्रतशीलता च वसुधाराजिसदृशकोपाद्यल्पारम्भसहाया, प्राधान्यख्यापनायैकाकिन्याः खलु मायायाः कृतं ग्रहणं सूत्रकारेण, स्पष्टीकृतमेवमाचक्षाणेनेति // 17 // उक्तस्तैर्यग्योनायुष आस्रवः / अथ मनुजायुष आस्रवः क इत्यत्रोच्यतेसूत्रम्-अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य // 6-18 // भा०-अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्यायुष आस्रवो भवति // 18 // टी-आरम्भपरिग्रहावुक्तलक्षणौ / अल्पः-स्तोकः / अल्पारम्भपरिग्रहयोर्भावः अल्पारम्भपरिग्रहत्वम् / आत्मनो मन्दपरिणामता आरम्भे परिग्रहे च, स्वभावः-सहजो धर्मः सहज मार्दवं न तु कृत्रिमम् / प्रकृत्यैव जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतस्थानेषु गर्वरहितः मृदोर्भावः मार्दवं--मृदुता / तथा सहजमार्जवमृजो वो यथावस्थितमनोवाकायविषयवक्रतात्यागः / चशब्दः कारणान्तरसमुचितौ / एतदेव भाष्येण स्पष्टयति-अल्पारम्भपरिग्रहत्वमित्यादिना / अल्पारम्भत्वम्-अल्पप्राणातिपाताधनुष्ठायित्वम् , अल्पपरिग्रहत्वम्-अल्पेच्छता, शब्दादिविषया वाऽल्परागता, स्वभावमार्दवं स्वभावजैव भद्रता, स्वभावार्जवं प्रकृत्यैवर्जुता / चशब्दान्मिथ्यादर्शनातिविनीतत्वं, सुखप्रज्ञापनीयता वालुकाराजिसदृशरोपता स्वागताधभिलाषिता स्वभावमधुरता लोकयात्रानुग्रहोदासीन्यगुरुदेवताभिपूजा संविभागशीलता कापोतलेश्यापरिणामः धर्मध्यानध्यायिता मध्यमपरिणामता च मनुष्यस्यायुष आस्रवो भवतीति // 18 // 1. दृष्टयाश्लेष्टावारता' इति ग-पाठः। २'कुणग्गं (1) विकल्पा' इति ड-पाठः। .