________________ सूत्र 16] .. स्दोपज्ञमाध्य-टीकालङ्कृतम् वेदनीयस्यास्रवः, स्वशोकोत्पादशोचनपरदुःखनिष्कारणशोकमूकताभिनन्दिता शोकवेदनीयस्य, विवित्रपरिक्रीडनपरचित्तावर्जनबहुविधरमणपीडाभावदेशाद्यौत्सुक्यप्रीतिसञ्जननादीनि रतिवेदनीयस्य, परराजप्रादुर्भावनरतिविनाशपापशीलताकुशलक्रियाप्रोत्साहनास्तेयादयस्त्वरतिवेदनीयस्य, स्वयंभयपरिणामभयोत्पादननिर्दयत्वबासनादीनि भयस्य, सद्धर्मसक्तचतुर्वर्णअशलक्रियाचारप्रवणजुगुप्सापरिवादनशीलत्यादयो जुगुप्साया आस्रवा भवन्ति // कषायोदयादित्यादि भाष्यम् / कपः-संसारः कर्म वा तस्य आयास्तेपामुदयो-विपाकस्तसात् कारणभूताद् यस्तीत्रः-प्रकर्षप्राप्त आत्मनो-भवितुः परिणामश्चारित्रमोहस्यासवो भवति / तद्यथा-परमधार्मिकाणां साधूनां गर्हणया धर्माभिमुखानां च विघ्नकारितया देशविरतिजनान्तरायकरणेन मधुमद्यगांसाविरतिगुणदर्शनेन चारित्रगुणसन्दूषणेनाचारिप्रदर्शनेन परस्य कषायनोकपायोदीरणेन चरणगुणोपघातकारिकपायनोकपायवेदनीयं चारिप्रमोहं बनातीति // 15 // ___ अथायुश्चतुष्टयस्य यथायथं क आस्रवक्रम इति पृष्टे ब्रूमः-चतुर्णामाद्यस्य नियतकालपाकस्य सूत्रम्-बहारम्भपरिग्रहत्वं च नारकस्यायुषः // 6-16 // ___ भा०-वहारम्भता बहुपरिग्रहता च नारकस्पायुष आस्रवो भवति // 16 // टी-बहुः-विपुल:-प्रभूतः आरम्भणमारम्भः-प्राणिप्राणव्यपरोपणं अनवरतखण्डनीपेषणीचुल्लयुदकुम्भप्रमार्जनीव्यापारो वा / बहुश्वासावारम्भश्च बहारम्भः। परिग्रहणं परिग्रहः-मूर्छा-गाय-ममत्वमान्तरेषु शरीरादिषु बाह्येषु च वस्तुषु क्षेत्रवास्तुहिरण्यसुवर्णादिषु स्नेहः / बहुश्चासौ परिग्रहश्च बहुपरिग्रहः तयोर्बद्वारम्भपरिग्रहयो वो बहारम्भपरिमहत्वम् तथा परिणाम आत्मनः / चशब्दः समुचितौ। तामेव भाष्येण दर्शयति / भावप्रत्ययं च प्रत्येकमभिसम्बध्नाति-बहारम्भता बहुपरिग्रहता चेति / नरकाः पापकमणां सत्त्वानामधिवासा अनादिकालप्रसिद्धास्तेषु भवा नारकास्तेषां नारकाणां यदायुः-जीवनं तस्यास्रवो भवति। तेषु नारकेषु वा भवे यदायुरिति सम्बन्धः / अपरे ब्रुवते-बहारम्भाः परिग्रहा यस्यासौ बहारम्भपरिग्रहस्तद्भावो बहारम्भपरिग्रहत्वम् / चशब्दादागमोक्तं च कार णद्वयमभिसम्बध्नाति / कुगपाहाराभ्यवहारित्वमसकृत्पञ्चेन्द्रियसत्त्वबहारम्भपरिग्रहताया व्यापादश्चेत्यस्मिन् पक्षे भाष्यं न सम्यग् गमितं स्यात् / अपरे व्याचव्याख्यान्तरम् क्षते-बहारम्भपरिग्रहत्वं चशब्दात् कषायोदयात् तीव्रपरिणामश्चानु कृष्यते / एवमेव बहारम्भपरिग्रहकुणपाहारपञ्चेन्द्रियवधा आसेविता भा. १'भाभवा इति' इति पाठः। 2 ' सम्बध्यते' इति -पाठः /