________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 6 सामान्येन वा सङ्घस्यावर्गख्यापनम् / काकभृगालसारमेयानामपि समुदायः सङ्घ एवोच्यते / तेन सङ्घोऽगौरवास्पदम् / यच्चाभिधीयते-तीर्थकरानन्तरत्वात् सङ्घः सपर्यार्हस्तदपि स्वमनीषापरिकल्पनमात्रमित्याद्यवर्णोद्भावनम् / तथा पञ्चमहाव्रतसाधनस्य धर्मस्यावर्णभाषणं, पञ्चसंख्यापरिच्छिन्नानि महान्ति व्रतान्यणुव्रतापेक्षयः जायन्ते तानि साधनमस्य धर्मस्य पश्चमहावतसाधनः, मनोवाकायैः कृतकारितानुमतिभिश्च प्राणिवधादिनिवृत्तयो महाव्रतानि, रजनिभोजनाधाकर्माद्यशेषोत्तरगुणाक्षेपो महाव्रतैरेव, अतः क्षमादेर्दशलक्षणकस्य धर्मस्यावर्णवादो दर्शनमोहस्यास्रवः, न पशुविशसनादेर्धर्माभासस्य, मायामनुप्रणीतस्य चारम्भकस्य / कः पुनस्तस्यापवादः अभ्युदयापवर्गहेतुर्धर्मो न प्रत्यक्षादिना प्रमाणेन विषयीक्रियते / ने चाऽप्रमाणकोऽस्तीति वक्तुं पार्यते / न च पुद्गला धर्मशब्दवाच्याः पुद्गलवादेव / नाप्यात्मपरिणामो धर्मः आत्मशब्दपरिणामवाच्यत्वात् क्रोधादिपरिणामवदित्याद्यवर्णभापणम् / चतुर्विधानांच देवानामवर्णवादः। चतस्रो विधा येषां ते चतुर्विधाः-भवनपति-व्यन्तर-ज्योतिषिक-वैमानिकाः / चशब्दः समुच्चयार्थः / तेषां चावर्णवादो दर्शनमोहस्यास्रवः / परस्परप्रवीचाराः ___ खलु देवाः षण्डवत् / अपरे बलवन्तोऽल्पबलं देवमप्यभियुज्य मैथुनमासेवन्ते देषानामवर्णवादः स्तब्धलोचनपुटास्तथाऽत्यन्तासद्भूतदोषप्रख्यापनशुक्रशोणितवल्युपहारा शिनो देवाः। अहल्यायें जार इन्द्रः कृतभगसहस्रा छत्रिधषित इत्याद्यशिष्टव्यवहारावघोषणं देवानामवर्णवादः / इतिशब्देनाद्यर्थेन तीव्रमिथ्यात्वपरिणामोन्मार्गदेशनधार्मिकजनतासंदूषणसर्वत्रसिद्धदेवानथोभिनिवेशासमीक्षितकारितासंयतपूजाप्रयोगा दर्शनमोहस्य संसारपरिद्धिमूलनिमित्तस्यानन्तसंसारानुबन्धिनो मिथ्यात्वस्यास्रवा द्रष्टव्याः // 14 // अथ चारित्रमोहनीयस्य क आस्रव इत्युच्यतेसूत्रम्-कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य // 6-15 // भा०-कषायोदयात् तीवात्मपरिणामश्चारित्रमोहस्यास्रवो भवति // 15 // टी-कषायाः-कोपादयः तेषामुदितिः उदयः स निमित्तत्वेनापदिश्यते / अस्य कोपादेः कषायस्य तीवाः-प्रकृष्टाः परिणामा-आत्मनोऽवस्थाविशेषाः शब्दादिविषयेषु गायमीर्ष्यालु त्वमनृतवादित्वं वक्रता परदाररतिप्रियता स्त्रीवेदवन्धहेतवः, ऋजुसमास्त्रीवेदादिनवनोकषायबन्धनहेतवः / ... चारता मदक्रोधकपायादिना स्वदाररतिप्रियता अनीर्ष्यालुत्वं पुरुषवेदव "न्धहेतवः, तीव्रक्रोधादिना पशूनां वधक्षणनमुण्डनरतित्वं स्त्रीपुरुषेध्वनङ्गसेवनशीलता शीलवतगुणधारिणः पाषण्डयोषित्सव्यभिचारकारिता तीव्र विषयानुबन्धिता च नपुंसकबन्धहेतवः, उत्प्रामनदीनाभिलाषिताकन्दर्पोपहासनबहुप्रलापहासशीलता हास्य 2' तथा ' इति ड-पाठः। स्नात्रैदूषित' इति क-ख-पाठः / 'यदाऽभिः' इति क-पाठः। 'अन्यकोपादेः' इति -पाठः /