________________ पुत्रं 14. स्वोपज्ञभाष्य टीकालङ्कृतम् " सूत्रम्-केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य // 6-14 // भा०-भगवतां परमपीणां केवलिनामहत्योक्तस्य च साङ्गोदर्शनमोहस्यानवाः पाङ्गस्य श्रुतस्य चातुर्वर्णस्य सङ्घस्य पश्चमहाव्रतसाधनस्य धर्मस्य चतुर्विधानां च देवानामवर्णवादो दर्शनमोहस्यास्रवा इति // 14 // टी-भगवतामित्यादि भाष्यम् / षण्णामर्थादीनां भगाभिधानात् तद्योगाद् भगवन्तः तेषां भगवतामिति / अर्थादयो नृपैरपि सम्भवन्तीति तद् व्यवच्छेदायाह-परमर्षीणामिति / प्रकृष्टा ऋषयः सम्यग्दर्शनज्ञानाचरणसम्पन्नाः ते चाकेवलिनोऽपि भवन्तीति, अतः केवलिनामित्याह / सकलज्ञानावरणक्षयसमुद्भूतः समस्तज्ञेयविषयोऽवबोधः साक्षात्परिच्छेदी घेतनापर्यायः केवलं तल्लामात् केवलिनस्तेपामवर्णः रागद्वेषमोहसमावेशादसद्भूतदोषोद्भावनं सत्यवाक्प्रयोगो वा निन्दाप्रख्यापनं वा वदनं वा दोषभाषणमवर्णस्य केवलिनोऽवर्णवादः वादोऽवर्णवादः। तद्यथा-दिगम्बरत्वाद् विगतत्रपाःक्रमोपयोगभाजः समवसरणभूमावकायभूम्यारम्भानुमोदिनः सर्वोपायनिपुणा अपि दुष्करदुरुपचारमार्गोपदर्शिन इत्याधवर्णोद्भासनम् / तत्त्वार्थश्रद्धानलक्षणं दर्शनं तत् मोहयति-आच्छादयतीति दर्शनमोहस्तस्यास्रवो भवति, मिथ्यात्वादेरित्यर्थः / आर्हन्त्यनामकर्मोदयादहन्तःतीर्थकरास्तैः प्रोक्तं-प्रकर्षेणोपदिष्टं अविपरीतं यथावस्थितज्ञेयानुसारि श्रुतम् / कारणे कार्योपचारं कृत्वा प्रोक्तमित्युक्तम् / चशब्दः समुच्चये / अङ्गानि द्वादशाचारादीनि दृष्टिवादान्तानि उपाङ्गान्यौपपातिकप्रभृतीन्यङ्गार्थानुवादीनि / सहाङ्गोपाङ्गैवर्तत इति साङ्गोपाङ्गम् / तस्य च श्रुतस्य-प्रवचनस्यावर्णप्रख्यापनं अविदग्धप्राकृतभापानिबद्धं क्षुतस्यावर्णवादः व्रतकायप्रायश्चित्तप्रमादोपदेशपुनरुक्तताबहुलं कुत्सितापवादप्रायमित्ये वमाद्यवर्णोद्भासनं श्रुतज्ञानस्येति / चत्वारो वर्णाः साधुसंयती(साधी)भावकश्राविकाख्याः / वर्ण्यन्त इति वर्णा-भेदास्तेषु चतुषु वर्णेषु भवश्चातुर्वर्गः सङ्योगणः / अथवा सम्यक्त्व-ज्ञान-संवर-तपांसि चत्वारो वर्णा-गुणास्तद्भवश्वातुर्वर्णः, चतुर्णा वर्णानामयं चातुर्वर्णः सङ्घः, न तु सुगतशिष्याणां भौतानां वा / तस्य चतुर्विधस्य सङ्घस्या वर्णः / साधवस्तावत् सचित्ताद्याभवयवहारपरायणाः परिपेलवयासंयतादीनामवर्णवादः घशौचाचाराः जन्मान्तरकृतकर्मोदयजनितकेशोल्लुश्चनातापनदुःखा नुभविनः कलहकारिणोऽसहिष्णवः प्रागदत्तदानाः भूयोऽपि दुःखिता एव भविष्यन्तीत्यवर्णोद्भावनम् / एवमेव च संयतीनामवर्णभाषणम् / तथा श्रावकश्राविकाणामपि निन्दनमनेकप्रकारम्-न स्नानं धर्मार्थमेषाम् , न च द्विजातिभ्यो दान", न प्रपादिकरणम् , हरिकेशकल्पाः खल्वेते, गोशृङ्गमेषां गेहाङ्गणद्वारि निखायतामित्याद्यवर्णप्रकाशनम् /