________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः६ त्सर्गापवादप्रपञ्चः स्वातन्त्र्यात् क्रियाप्रवृत्तौ न व्याहन्यते / बाल:-क्षुल्लकः कारणप्रब्राजितो जघन्यादिभेदः / जातिश्रुतपयोयस्थविरास्त्रयः, षष्टिवर्षेः समवायधरो व्रतारोपणोत्तरकालं विंशतिवर्षश्च यथाक्रमं वृद्धः / तपो बाह्यमनशनादि, आन्तरं च प्रायश्चित्तादि, तदस्यास्तीति तपस्वी, विचित्रं वा तपः कनकरत्नावल्यादिभेदं वक्ष्यमाणं तद्योगात् तपस्वी / शिक्ष्यत इति शिष्यः(क्षः१), शिक्ष एव शैक्षः, स्वार्थे(ऽण्) प्रासादिवत् / शिक्षणशीलो वा / छात्रादिपाठाद सप्रत्ययः / शैक्षः / मूत्राधिगमेऽभियुक्तो यथाविहितकालमध्येतव्ये श्रोतव्ये चाभ्युद्यत इत्यर्थः / ग्लानो-मन्दपाटवः सव्याधिकत्वाद् भक्तपानाद्यन्वेषणे न प्रत्यलः / आदिग्रहणात् कुलगणसमनोज्ञपरिग्रहः / चशब्दः समुच्चये / श्रुतधराणां बालादीनां च सङ्ग्रहादिकारित्वम् / तत्र सङ्ग्रहः-परिग्रहणमुपसम्पदालोचनापूर्वकं संयमानुष्ठानश्रुताध्ययनचोदनाप्रतिचोदनार्थम् / उपग्रहो वस्त्रपात्रोत्पादनबहुगुणक्षेत्राक्रान्तिलक्षणः / अनुग्रहो भक्तपानयथायोग्यविहितप्रदानादिलक्षणः, एतत् करोति तच्छीलश्च तद्भावः सङ्ग्रहोपग्रहानुग्रहकारित्वं तत्परिणामितेतियावत् / प्रवक्तीति प्रवचनम् / एत एव श्रुतधरादयो भगवद्भाषितार्थप्रतिपादनपरिणताः प्रवचनशब्दवाच्यास्तेषु वात्सल्यम् / उक्तं सङ्ग्रहोपग्रहानुग्रहलक्षणम् / इतिशब्द आद्यर्थः / विंशतः कारणानां सूत्रकारेण किञ्चित् सूत्रे किश्चिद् भाष्ये किश्चित् आदिग्रहणात सिद्धपूजाक्षणलवध्यानभावनाख्यमुपात्तम् , उपयुज्य च प्रवक्त्रा व्याख्येयम् / इदानीमुसंहरतिएते गुणा इत्यादिना। एते यथोद्दिष्टा गुणा दर्शनविशुद्धयादय आत्मनः परिणामाः समुदिताः प्रत्येकं च तीर्थकरनामकर्मण आस्रवा भवन्ति, न पुनर्नियमोऽस्ति समस्ता एप व्यस्ता एव वा / विकल्पार्थो वाशब्दः / इतिशब्दस्तीर्थकरनामकर्मास्रवेयत्ताप्रतिपादनार्थ इति // 23 // नामानन्तरनिर्देशभाजो गोत्रस्योपादाने किं निबन्धनमिति, एतद् द्विधा गोत्रंनीचैरुच्चैश्च / तत्र तावनीचैर्गोत्रास्रवप्रसिद्धयर्थमिदमाहनीचैर्गोत्रस्यानवाः सूत्रम्-परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य // 6-24 // ___भा०-परनिन्दा आत्मप्रशंसा सद्गुणाच्छादनमसद्गुणोद्भावनं चात्मपरोभयस्थं नीचैर्गोत्रस्थानवा भवन्ति // 24 // ___टी-परनिन्देत्यादि भाष्यम् / परश्वात्मा च परात्मा निन्दाच प्रशंसा च निन्दाप्रशंसे परात्मनो निन्दाप्रशंसे यथाक्रममभिसम्बन्धः परात्मनिन्दाप्रशंसे / सन्तोऽसन्तश्च सदसन्तःविद्यमानाविद्यमानाः ते च ते गुणाश्च सदसद्गुणाः, छादनं चोद्भावना च छादनोद्भावने, अत्रापि क्रमेणाभिसम्बन्धः सदसद्गुणाच्छादनोद्भावने / चशब्दात् परात्मनिन्दाप्रशंसे समुच्चीयेते / १'प्रज्ञादित्वात् ' इति क-पाठः /