________________ 24 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 6 टी-आस्रवो ज्ञानस्य ज्ञानवतामित्यादि भाष्यम् / उक्तलक्षण आस्रवस्तमभिसम्बध्नन् प्रदोषादिना एकैकेनैकवचनात् / तमेवाह--आस्रव इति / कस्यास्रवः प्रदोषादिः किंविषयो वेति शङ्कायां साम्परायिकाष्टविधकर्मप्रस्तावात् प्रतिविशिष्टानुपूर्वीव्यवस्थातश्चाद्यप्रकृतिमेव सम्बध्नाति-ज्ञानस्येति / ज्ञानस्य सम्बन्धिनः प्रदोषादयो ज्ञानविषयास्तदावरणस्य कर्मण आस्रवा भवन्ति / ज्ञानं चेतना आत्मनः स्वरूपं इति / तत्प्रतिपिपादयिषयेदमाह-एतैर्हि ज्ञानावरणकर्म बध्यते / यसादेतैः करणभूतैःअध्यवसायविशेषैः प्रदोषादिभिरात्मना स्वपरिणामैः कर्म ज्ञानावरणाख्यं बध्यते उपादीयते गृह्यते तस्मादेव आस्रवा इति / एवं ज्ञानावरणास्रवानाख्याय तत्तुल्यत्वाद् दर्शनावरणस्यातिदेशं करोति–एवमेव दर्शनावरणस्येति / एवमेवेत्यनेनातिदेशं प्रतिपादयति, यथा ज्ञानावरणस्यास्रवाः प्रदोषादयस्तथा दर्शनावरणस्यापि कर्मण एत एवासवा बोद्धव्याः / दर्शने चक्षुरचक्षुरवधिकेवलभेदम् / सामान्यमात्रोपयोगश्चेतनादिविशेषः, तस्यावरणं नवधा, निद्रादयोऽपि हि यथोक्तलक्षणाश्चक्षुर्दर्शनादिविघातकारित्वात् तदावरणम्, अत्राप्युपघात इति / इति शब्देनाद्यार्थेनालस्यस्वपनशीलतानिद्रादरप्राणातिपातादयः परिगृह्यन्ते / वर्शनावरणीयकर्मण इतिशब्दस्तु ज्ञानदर्शनावरणयोरास्रवेयत्ताप्रदर्शनार्थः / एवमुक्तेन प्रका ___ आनवाः रेण दर्शनस्य दर्शनवतां दर्शनसाधनानां च प्रदोषादय आलस्यादयथ दर्शनावरणस्य आस्रवा भवन्तीति प्रतिपादितम् // 11 // . इदानीमसद्वेद्यसद्वेद्ययोरास्रवाश्चिन्त्यन्ते, यथाऽनयोः कर्मप्रकृत्योर्नियमेनायमास्रवक लापः। तद्यथा-दुःखशोकादिभिभूतव्रत्यनुकम्पादिभिश्च यथाक्रममसवेद्यसद्वेद्ययोरास्रवकलापोऽवगन्तव्यः सूत्रद्वयेनसद्यस्यावा. सूत्रम्-दुःखशोकतापाकन्दनवधपरिदेवनान्या ___त्मपरोभयस्थान्यसदेद्यस्य // 6-12 // सूत्रम्-भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः असद्वेद्यस्यास्रवाः शान्तिः शौचमिति सद्धेद्यस्य // 6-13 // टी-दुःखादयः कृतद्वन्द्वाः षडप्यास्रवा भवन्त्यसद्वेदनीयस्य कर्मणः / भूतव्रत्यनुकम्पादयोऽपि पश्चाविहितद्वन्द्वाः सवेंदनीयस्य कर्मण आस्रवा द्रष्टव्याः / तत्र प्रथमसूत्रभाष्यम् भा०-दुःखं शोकः तापः आक्रन्दनं वधः परिदेवनमित्यात्मसंस्थानि परस्य क्रियमाणानि उभयोश्च क्रियमाणानि असवेद्यस्याखवा भवन्तीति // 12 //