________________ 23 सूत्र 11]. स्वोपज्ञभाष्य-टीकालङ्कृतम् - भा०-अत्राह-उक्तं भवता (अ० 6, सू० 5) सकषायाकषाययोर्योगः साम्परायिकर्यापथयोरास्रव इति / साम्परायिकं चाष्टविधं वक्ष्यते (अ० 6, सू० 28) / तत् किं सर्वस्याविशिष्ट आस्रव आहोस्वित् प्रतिविशेषोऽस्तीति / अनोच्यते-सत्यपि योगत्वाविशेषे प्रकृति प्राप्यास्त्रवविशेषो भवति / तद्यथा टी०-अत्राह-उक्तं भवतेत्यादिना सम्बन्धमाचष्टे / अत्र सामान्यास्रवविचारे मवतोक्तम् / किमुक्तमिति उक्तस्यानुवादं करोति-सकषायाकषाययोर्बन्धकयोर्योगःकायादिव्यापारो यथासंख्यं साम्परायिकेयोपथयोः कर्मणोरास्रवो भवति / इतिशब्द एवशब्दार्थे / एवमुक्तं भवतेति / साम्परायिकं चाष्टविधं ज्ञानावरणादिभेदेनाभिधास्यते कर्म जातिभेदेन / एवं सति फलभेददर्शनात् सन्देहबीजसम्भवः / तस्मात् प्रष्टव्यम्-किं सर्वस्य ज्ञानावरणादेरष्टविधस्यापि कस्यापि कायादियोगोऽविशिष्टः-सामान्यलक्षण आस्रव आहोस्वित् प्रतिविशेषो-भेदः कर्म प्रति कश्चिदस्तीति / इतिकरणं प्रश्नेयत्तां दर्शयति / अत्रोच्यते इत्याहाचार्यः / अस्ति भेद इति संगिरामहे / योगसामान्येनाभेदे भवत्यपि योगसामान्येनैकरूपपुद्गलग्रहणे सति वक्ष्यमाणास्रवविशेषैः कर्मजातेः फलभेदः, यथा आहारः कश्चिदेकरूपोऽपि जग्धः प्राप्य जठरं रस-रुधिर-मांस-मेदो-मज्जा-ऽस्थि-शुक्र-मलविशेषभावेन परिणमते, तथैकप्रयोगचितेऽस्य कर्मण आस्रवभेदसम्भवे सति अष्टधा परिणामः प्रकृति प्राप्येति / प्रकृतिः-खभावः / किञ्चित् कर्म ज्ञानावरणस्वभावं किञ्चिद् दर्शनावरणस्वभावं इत्येवमष्टविधमपि भिन्नस्वभावं वक्ष्यते, अतः प्रकृतिमाश्रित्य आस्रवभेदः। तद्यथेत्यनेन तथासवभेदं प्रति प्रकृति प्रत्यक्षीकरोति / नाप्यक्रमन्यस्तयोस्तावदाद्ययोः प्रकृत्योरास्रवभेदः। * * सूत्रम्-तत्प्रदोषनिहवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शना वरणयोः // 6-11 // टी०-प्रदोषादयः कृतद्वन्द्वा अपि तच्छब्देन सह विहितषष्ठीतत्पुरुषसमासाः सूत्रकृता निर्दिष्टाः। तयोः प्रदोषादय इति सामान्येनाभिनिवृत्ते समासे पश्चादिदमुच्यते-तयोरिति कयोः प्रदोषादय आस्रवा इत्याह-ज्ञानदर्शनावरणयोरिति / ज्ञानं च दर्शनं च ज्ञानदशेने, आवरणम्-आच्छादनं ज्ञानदर्शनावरणयोरिति / एनमेवार्थ भाष्येण स्पष्टयति भा०-आस्रवो ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च प्रदोषो निद्ववो भानावरणीयकर्मण मात्सर्यम् अनन्तराय आसादनं उपघात इति ज्ञानावरणा___ आम्रवाः सवा भवन्ति / एतैर्हि ज्ञानावरणकर्म बध्यते / एवमेव दर्शनावरणस्येति // 11 // 'परणस्यानवा' इति घ-पाठः /