________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यापः 6 च्छेयजलकर्मभूकर्मपरिग्रहः / शस्त्रमप्यनेकाकारमाख्यातं कृपाणादि / वधस्थानता मूलगुणनिर्वर्तनाधिकरणं, तीक्ष्णतोज्ज्वलताद्युत्तरगुणाधिकरणमिति // अधुना निक्षेपाधिकरणस्वरूपनिर्धारणायाह भा०-निक्षेपाधिकरणं चतुर्विधम् / तद्यथा-अप्रत्यवेक्षितनिक्षेपाधिकरण दुष्पमार्जितनिक्षेपाधिकरणं सहसानिक्षेपाधिकरणं अनाभोगनिक्षेपाधिकरणमिति // टी-निक्षेपाधिकरणं चतुर्विधमित्यादि / तद्यथेत्यादिना चतुरः प्रकारानादर्शयति। अप्रत्यवेक्षिते-चक्षुषाऽनिरीक्षिते भूप्रदेशे निक्षेप्यस्य दण्डकादेः स्थापनमधिकरणं, प्रत्यवेक्षितेऽपि भूप्रदेश दुष्प्रमार्जिते रजोहरणेनाप्रमार्जिते वा निक्षेपोधिकरणं भवति / सुप्रमार्जितं त्वेकतनिरिति / तद्विपरीतं दुष्प्रमार्जितम् / सहसेति शक्त्यभावाच्चेतयतोऽप्यप्रत्यवेक्षितदुष्प्रमार्जितदेशे निक्षेपोऽधिकरणस्येतरोऽपि सहसा निक्षिपतः, अनाभोगोऽत्यन्तविस्मृतिः, नहीदं स्मरति प्रत्यवेक्षिते सुप्रमार्जिते च देशे निक्षेप्तव्यम् , तथाविधस्य निक्षेपोऽधिकरणमिति // इदानीं संयोगाधिकरणद्वैविध्यमिति प्रदर्शनायाह भा०-संयोगाधिकरणं विविधम्-भक्तपानसंयोजनाधिकरणं उपकरणसंयोजनाधिकरणं च। टी.-संयोगाधिकरणं विविधमित्यादि / तत्र भक्तमशनखाद्यस्वायमेदाद विधा / तस्य संयोजनं पात्रे मुखे वा व्यञ्जनगुडोपदंशफलशाकादिना सह, तथा द्राक्षादाडिमपानकाद्यपि प्रासुकजलारनालादि च खण्डशर्करामरिचादिमिः, एवितभक्तपानसंयोजनाधिकरणम् , उपकरणसंयोजनाधिकरणम् / सम्प्रति निसर्गाधिकरणत्रैविध्यप्रतिपादनायाह मा०-निसर्गाधिकरणं त्रिविधम्-कायनिसर्गाधिकरणं वानिसर्गाधिकरणं मनोनिसर्गाधिकरणमिति // 10 // टी-निसर्गाधिकरणमित्यादि / कायः-शरीरमौदारिकादिभेदं तस्य निसर्गोन्यायापेतमुज्झनमविधिना स्वच्छन्दत इतियावत् / शस्त्रपाटनाग्निजलप्रवेशोद्वन्धनादिमिः / पाचोऽपि त्यागः-प्रेरणं शास्त्रोपदेशाहते / मनसश्चेति / अत्र बहियापारापेक्षया शरीरादीनामजीवनिसर्गाधिकरणत्वमुक्तम् / जीवाधिकरणे चात्मनः परिस्पन्दोऽन्तःपरिणामो योगः। मूलगुणनिवर्तनाधिकरणेऽवस्थानमात्रमेषामिति विशेषः // 10 // देशनिक्षेपा.' इत्यपि पाठः।२ अस्य व्याख्या किं न कृतेति प्रश्नः / 3 'घ संस्थान.' इति ग-पाठः।