________________ सूत्र 10] स्वोपनमाष्य-टीकालङ्कृतम् . - भा०-तत्र निर्वर्तनाधिकरणं द्विविधम्-मूलगुणनिर्वर्तनाधिकरणमुत्तरगुणनिवर्तनाधिकरणं च / तत्र मूलगुणनिर्वर्तना पश्च शरीराणि वाङ्मनःप्राणापानाश्च / उत्तरगुणनिर्वर्तना काष्ठपुस्तचित्रकर्मादीनि // री०--तत्रेत्यादि / तत्र-तेषु निर्वर्तनादिषु निर्वर्तना तावद् व्याख्यायते / निर्वतनैवाधिकरणं निर्वर्तनाधिकरणम् / अधिकरणमिति समानाधिकरणः, भावसाधनपक्षे षष्ठीतत्पुरुषः निर्वर्तनाया अधिकरणम् / एवमन्यत्रापि योज्यम् / तद् द्विविधं-द्विप्रकारम् / प्रकारद्वयप्रदर्शनार्थमाह-मूलगुणेत्यादि / चशब्दः समुच्चये / मूलं चासौ गुणश्च मूलगुणः / मूलमायं प्रतिष्ठा संस्थानाख्यो गुणो मूलगुणः स एव निर्वर्तनाधिकरणम् / स हि निवृत्तः सन् अधिकरणीभवति कर्मपन्धस्य। तथाऽङ्गोपाङ्गसंस्थानमृद्वादितैक्ष्ण्यादिरुत्तरगुणः सोऽपि निवृत्तः सन्नधिकरणीभवति कर्मबन्धस्योत्तरगुण एव निर्वर्तनाधिकरणम् / तत्र मूलगुणनिर्वर्तना-पञ्च शरीराणीत्यत्राधिकरणशब्दो नोदितो भाष्यकृता लाघवैषिणा। अनुक्तोऽपि च प्रत्यासत्तेर्गम्यते,अतो मूलगुणनिर्वर्तनाधिकरणम् / औदारिकादीनि पञ्च शरीराणि / तानि च द्वितीयाध्याये व्याख्यातानि प्रकृतवस्तुनि योज्यन्ते / औदारिकशरीरवर्गणाप्रायोग्यद्रव्यैर्निर्मापितमौदारिकशरीरसंस्थानं प्रथमसमयादारभ्य मूलगुणनिर्वर्तनाधिकरणमात्मनो भवति, बन्धनिमित्तत्वात् / उत्त रगुणनिवतेनाधिकरणमौदारिकस्याङ्गोपाङ्गमृजाकर्णवेधावयवसंस्थानादि / निर्वर्तनाधिकरणस्य वैक्रियस्यापि वपुषः स्ववर्गणाप्रायोग्यद्रव्यनिर्मापितमादिसमयादारभ्य स्वरूपम् संस्थानं मूलगुणनिर्वर्तनाधिकरणम्, अस्य तूत्तरगुणनिर्वर्तनाधिकरणमङ्गो पाङ्गकेशदशननखादिकम्, आहारकशरीरस्यापि स्ववर्गणायोग्यपुद्गलद्रम्पनिर्मापितं संस्थानं मूलगुणनिर्वर्तनाधिकरणम् , उत्तरगुणनिर्वर्तनाधिकरणमङ्गोपाङ्गादि, कार्मसपातलक्षणस्य कार्मणस्यापि तद्योग्यद्रव्यनिर्मापितस्वसंस्थानं मूलगुणनिर्वर्तनाधिकरणम्, उत्तरगुणनिवतेनाधिकरणमस्य नास्त्येव, तैजसस्याप्युष्णलक्षणस्याशितपीतपावकशक्तिभाजो लब्धिप्रत्ययस्य च परनिग्रहानुग्रहकारिणः स्ववर्गणानिमोपितसंस्थानं मूलगुणनिवेतेनाधिकरणम् , अस्याप्युत्तरगुणनिर्वर्तना नैवास्तीति // वाङ्मनःप्राणापानाश्चेति / चशब्दान्मूलगुणनिर्वर्तनाभिसंबन्धः / वाङ्मनोवर्गणायोग्यद्रव्य निर्मापितौ वाङ्मनःसंस्थानविशेषौ मूलगुणनिवर्तनाधिकरणम् / तथा प्राणापानवर्गणायोग्यनिर्मापितौ उच्छासनिश्वासाकारौ मूलगुणनिर्वर्तनाधिकरणम् / एषामप्युत्तरगुणनिर्वर्तनान सम्भवत्येवेति / मूलगुणनिर्वर्तनाधिकरणमित्थं व्याख्याय प्रकारान्तरेणोत्तरगुणनिर्वर्तनामाचिख्यासुराह-काष्ठपुस्तचित्रकर्मादीनीति। कर्मशब्दः प्रत्येकमभिसम्बध्यते / तत्र काष्ठकर्म कुहिमपुरुषादीनां कृतिः, अत एवोत्तरगुणनिर्वतनोच्यते / प्रसिद्धपुरुषाद्याकृतेः प्रतिविम्ब निर्वर्तनादेव पुस्तचित्रकर्मणी अपि वाच्यम् / पुस्तकर्म सूत्रचीवरकादिग्रथितकृत्रिमपुत्रकादिकं, चित्रकर्मात्यन्तप्रसिद्धम् / आदिग्रहणात् लेप्यपत्र 1 परितो गृहानु ' इति ख-ग-पाठः /