________________ तत्त्वार्थाधिगमसूत्रम् [अन्यायः 6 मा०-अत्राह-अथाजीवाधिकरणं किमिति ? / अनोच्यते टी०-अत्राहेत्यादिना सम्बन्ध प्रतिपादयति / अत्रेति जीवाधिकरणव्याख्यानावसाने परोऽनवबुध्यमान आह-अथाजीवाधिकरणं किमिति / अथेत्यानन्तर्यार्थः / जीवाधिकरणादनन्तरमजीवाधिकरणं प्राक निरदेशि सूत्रकारेण तत् किमिति-किंस्वरूपं-किस्वभावं तत् ? / इतिकरणः प्रश्नेयत्ताप्रतिपादनार्थः / एवं प्रश्ने अनोच्यते इत्याहाचायः / अत्र प्रश्नेऽनुरूपमुत्तरमभिधीयतेसूत्रम्-निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्दित्रिभेदाः परम् // 10 // टी-निवर्तनादयः कृतद्वन्द्वा यथाक्रमं कृतद्वन्द्वैरेव यादिभिः समानाधिकरणा द्रष्टव्याः / अधिकरणमित्यनुवर्तते, तत् परमित्यनेनाभिसम्बध्यतेऽजीवाधिकरणं, तन्निर्वत नादिभेदाच्चतुधो अजीवविषयान् निवेतेनानिक्षेपसंयोगनिसगान् कुवेन् निर्वर्तनादीनां व्याख्या रागद्वेषवानात्मा साम्परायिक कर्म बनाति, निवर्त्यमानमजीवद्रव्यम् / निर्वर्तना निवर्त्यमानप्रयोजना / 'निर्वयेति भावसाधनो वा / सा द्विधा मूलोत्तरगुणभेदात् / निक्षिप्यतेऽऽसाविति निक्षेपः-स्थाप्यः कश्चिदजीव एव। स चतुर्विघोऽप्रत्यवेक्षितादिभेदात् / भावसाधनोवा। संयोजनं संयोगः एकत्वीकरणं वा मिश्रणम् / तद् देधा आहारोपकरणभेदात, निसजेनं निसगेः त्यागः उज्झनम् / तत् त्रिधा कायादिभेदात् / परवचनमनर्थकं पूर्वत्राद्यवचनात् , अस्मिन् वा सति आद्यवचनमनर्थकं अर्थापत्तिसिद्धेरितिचेत् तन्न। अन्तरङ्गताप्रतिपादनार्थत्वात् आद्यशब्दस्य बहिरङ्गताप्रतिपादनार्थत्वाच्च परशब्दस्येति विशिष्टार्थप्रतिपत्तिहेतुत्वादुभयं न्याय्यमित्यमुमेवार्थ भाष्येण स्पष्टयति ___ भा०-परमिति सूत्रक्रमप्रामाण्यादजीवाधिकरणमाह / तत् समासतश्चतुर्विधम् / तद्यथा-निवेतेना निक्षेपः संयोगो निसर्ग इति / . टी-परं बहिरङ्गम, इतिकरणशब्दः पदार्थकः / प्रतिविशिष्टपुरुषप्रणीतसूत्रक्रमस्य प्रमाणत्वात् परं-बहिरङ्गमप्रधानमजीवाधिकरणमाह। जीवपरिणामोऽभ्यन्तरङ्गस्तदायत्तत्वात् कर्मबन्धस्य, निमित्तमात्रत्वाद् बहिरङ्गमजीवाधिकरणम् / इष्टाभिधायी वा परशब्दः / प्रायोगिका वैस्रमा वा निर्वर्तनादयोऽध्यवसेयाः / आद्यं च जीवविषयत्वाद् भावाधिकरणमुक्तं फर्मबन्धहेतुमुख्यतः / इदं तु द्रव्याधिकरणमुच्यते / परम्-अमुख्यं निमित्तमात्रत्वात् / तदजीवाधिकरणं समासत:-संक्षेपतः चतुष्प्रकारं भवति / समासग्रहणान्मूलोत्तरगुणादिभेदःशरीरादिः शस्त्रकल्पश्च व्यामः मूक्ष्मप्रभेद आपादितो भवति / तद्यथेत्यादिना चतुरो विकल्पान स्वरूपतः पटति-निर्वर्तनेत्यादि / इतिकरणो मूलभेदेयत्ताप्रतिपादनार्थः / प्राग् व्याख्याताः शब्दनिभेदद्वारेण निवेतेनादयः / अधुना भेदद्वारेण स्वरूपकथनमेषां क्रियते •षया निवर्तनानिक्षेपसंयोगनिसांनि कुर्वन्' इति ग-पाठः / 1 निर्वर्ततेति ' इति ग-पाठः /