________________ सूत्र 9] स्वोपज्ञभाष्य-टीकालङ्कृतम् पुनरावर्तनीयः। ततश्च द्वितीया षट्त्रिंशत् लभ्यते / तथा क्रोधकारितकायारम्भ इत्यप्यभ्यावसमाने ग्रन्थे षत्रिंशदेव विकल्पानां प्राप्यते / एवमेषा ट्त्रिंशत् त्रिप्रकाराऽपि पिण्डिताऽष्टोत्तरं परिणामशनं भवतीत्येतदेवोपसंजिहीर्षन् दर्शयति भा०–तदेवं जीवाधिकरणं समामेनैकशः षत्रिशविकल्प जीवाधिकर स्य भवति / त्रिविधमप्यष्टोतरशतविकल्पं भवतीति // विकल्पसङ्ख्या संरम्भः संकल्पः, परितापनया भवेत् समारम्भः। प्रोणिवधस्त्वारम्भः, त्रिविधो योगस्ततो ज्ञेयः // 9 // री०-तदेवं जीवाधिकरणं समासेनेत्यादि यत् प्रस्तुतं जीवाधिकरणं तदेवं समासेन-संक्षेपेण एकैकं संरम्भाधिकरणं समारम्भाधिकरणं आरम्भाधिकरणं च षशिद्रिकल्प भवति / त्रिविधमपीति समुच्चयेऽपिशब्दः / तिस्रोऽपि षट्त्रिंशतः शतमष्टोत्तरं विकल्पानां भवतीति भाष्यानुसारणमवसायैव सूत्र एव स्फुटीकरणाय पुनरुच्यते, संरम्भादीनां कषायावसानानामाहितद्वन्द्वानां विशेषशब्देन समानाधिकरणस्तत्पुरुषः षष्ठीसमासो वा प्रत्येकं वा विशेषशब्देनाभिसंबन्धसामर्थ्यात् संरम्भादिविशेषैरिति तृतीयानुपपत्तिः, क्रियावादिपदार्थान्तराभावात्, न वाक्यशेषोपपत्तेः प्रविश पिण्डीमिति यथा तथेहापि क्रियापदावधारणमेकै मियात्, एकमेकं त्रीस्त्रीन् भेदाम् कुर्यादिति वा, योगादीनामानुपूर्व्यवचनं पूर्वापर विशेषणत्वात् / तस्मात् क्रोधादिचतुष्टयकृतकारितानुमतभेदात् कायादीनां संरम्भसमा- कृतकारितादि यन्त्रम् रम्भविशेषाः षट्त्रिंशद् विकल्पाः स्फुटीक्रियन्ते यन्त्रेण / उद्धृतक्रोधप- | काय कषाय | कषाय रिणाम आत्मा करोति स्वयं कायेन संरम्भमिति प्रथमविकल्पः / तथाआविर्भूतमानपरिणाम आत्मा करोति स्वयं कायेनेति द्वितीयः / | काय | वाक् | मनः तथोपजातमायापरिणतिरात्मा करोति स्वयं कायेन संरम्भमिति / 12 12 12 तृतीयः / तथा लोभकपायग्रस्तः करोति स्वयं कायेन संरम्भमिति | 36 / 36 | 36 चतुर्थः / एवं कृतेन चत्वारो विकल्पाः / कारितेन चत्वारः / अनुमत्यापि चत्वारः / एते द्वादश कायेन लब्धाः। तथा वाचा द्वादश, मनसाऽपि द्वादश, एते षट्त्रिंशत् संरम्भेण लब्धाः। तथा समारम्भेणापि ट्त्रिंशत्, आरम्भेणापि षट्त्रिंशत्, इत्येवमष्टोत्तरं विकल्पशतं भवति / का पुनर्भावना ? योगनिमित्तं हि कर्म बध्यते "कायवाङ्मनःकर्म योगः" (अ० 6, मू०१) इति वचनाद्, बन्धस्थितिः / कोपादिकषायाञ्जनवशीकारात् स्वयं करणपरिणतौ सत्यां कारितानुमतिपरिमाणद्वारेण च प्राणातिपातादिसंकल्पपरितापनाव्यापत्तयः साम्परायिककर्मबन्धहेतवो भवन्तीति प्रतिपादितं प्राक् / कायादयो व्यस्ताः समस्ताश्च बन्धहेतवः / समस्तास्तु प्रधानोपसर्जनतया च बन्धहेतव इति प्रतीतम् / एवमेतज्जीवाधिकरणं विकल्प्य भावनीयमिति // 9 // काय कषाय | कषाय कृत कारित अनुमत 1 सकषायः' इति घ-पाठः / 2 'भारम्भः प्राणिवधः' इति घ-पाठः / 3 'णामद्वारेण' इति -पाठः।