________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 6 अनुमतमनःसंरम्भः इति / एवं समारम्भारम्भावपि / तदपि पुनरेकशः कषायविशेषाच्चतुर्विधम् // टी–संरम्भ कायेन करोति वाचा करोति मनसा करोतीति / एवं कारयत्यपि विकल्पत्रयं, तथाऽनुमन्यते चेति विकल्पत्रयमेव / कृतवचनं स्वतन्त्रकर्तृप्रतिपादनार्थम् / कारिताभिधानं प्रयोज्यपरतन्त्रप्रदर्शनार्थम् / अनुमतिवचनं प्रयोजकस्य मानसपरिणामप्रदर्शनार्थम् / एतदेव भाष्यकारो दर्शयति-तद्यथा-कृतकायसंरम्भ इत्यादिवचननवकेन / यथाऽऽदौ कायसंरम्भः कृतकारितानुमतभेदेन विकल्पितः, एवं समारम्भारम्भावपि कृतकारितानुमतविकल्पिती वाच्यो / समारम्भं करोति समारम्भं कारयति समारम्भमनुमन्यते काये. नेत्यादिर्नवधा विकल्पना। तथाऽऽरम्भं करोति कारयति अनुमोदते चेति नवैव विकल्पा वेदितव्याः / तदपीत्यादिना पुनश्चतुर्धा भिनत्ति / कृतकायसंरम्भादिकरणादि पुनरेकै कषायविशेषाचतुर्विधं भवति / कषायाः प्रागभिहितलक्षणाः / सामान्येन विशेषो भेदस्तद्भेदाचतुर्विधं भवति / भा०–तद्यथा-क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकापसंरम्भः लोभकृतकायसंरम्भः, क्रोधकारितकायसंरम्भः मानकारितकायसंरम्भःमायाकारितकायसंरम्भः लोभकारितकायसंरम्भः, क्रोधानुमतकायसंरम्भः मानानुमतकायसरम्भ. मायानुमतगयसंरम्भः लोभानुमतकायसंरम्भः / एवं पाङ्मनोयोगाभ्यामपि वक्तव्यम् / तथा समारम्भारम्भौ / / / .. टी-तद्यथेत्यादिना दर्शयति यथाभिहितलक्षणान् विकल्पान् क्रोधकृतकायसंरम्भः / एवं मानमायालोभकृतसंरम्भ इत्यपि वाच्यम् / एवं क्रोधकारितकायसंरम्भः मानमायालोभकारितकायसंरम्भ इत्यपि वाच्यम् / तथा क्रोधानुमतकायसंरम्भः मानमायालोभानुमतकायसंरम्भ इत्यपि वाच्यम् / एवं वाङ्मनःसंयोगाभ्यामपि वक्तव्यमित्यतिदेशवाक्यम् / एवमित्युक्तप्रकारेण वाग्योगेनापि क्रोधादिविशिष्टेन वाच्यम् / क्रोधकृतवाक्संरम्भः मानमायालोभकृतवाक्संरम्भ इत्यपि वाच्यम् / तथा क्रोधकारितवाक्संरम्भः मानमायालोभकारितवाक्संरम्भ इत्यपि वाच्यम् / तथा क्रोधानुमतवाक्संरम्भः मानमायालोभानुमतवाक्संरम्भ इत्यपि वाच्यम् / एवं मनोयोगेनापि क्रोधादिविशिष्टेन विकल्पा एतावन्तो वाच्याः / क्रोधकृतमनःसंरम्भः मानमायालोभकृतमनःसंरम्भ इत्यपि वाच्यम् / तथा क्रोधकारितमनःसंरम्भः मानमायालोभकारितमनःसंरम्भ इत्यपि वाच्यम् / क्रोधानुमतमनःसंरम्भः मानमायालोभानुमतमनःसंरम्भ इत्यपि वाच्यम् / एवमेते ट्त्रिंशभेदाः, तद्यथा-क्रोधकतकायसंरम्भ इत्यादिना ग्रन्थेन प्रतिपादिताः / तथा समारम्भारम्भाविति अतिदेशेन समारम्भस्य पत्रिंशद्भेदत्वं संरम्भवत् प्रतिपादयति / क्रोधकृतकायसमारम्भ इत्येवमतिकान्तग्रन्थः १.कल्पेन' इति ग-पाठः।