________________ 9) स्वोपक्षमाप्य-टीकालङ्कृतम् / सतनानाम् / विषेण मारणम् / लवणेन पृथिव्यादिकायाधुपपातः / स्नेहेन धृततैलादेिना सामेवोपघातः / क्षारेण सकलत्वङ्मांसाद्यवकर्तनम् / अम्लेनाप्यारनालादिना पृथिव्यादि. कायोपघातः / अनुपयुक्तस्य च कायादयो यां चेष्टामभिनिवर्तयन्ति तया तया कर्म वध्यत इति / अथ भावाधिकरणं कतिप्रकारमित्याह-भावाधिकरणमष्टोत्तरं शतम् / माव:वीवादिपरिणाम आत्मनः, स एवाधिकरणं तच्चाष्टोत्तरशतमेदमष्टोत्तरशतं मेदानामागाम्पनन्तरं सूत्रेण भावयिप्यत इत्येदुभयमाख्यातं यत् प्राक् पृष्टं परेण जीवाधिकरणमजीवाधिकरणं च, नातः परमन्योऽधिकरणभेदोऽस्तीति // 8 // सूत्रम्-तत्र-आद्यं संरम्भसमारम्भारम्भकृतकारितानुमंत कषायविशेषत्रिनिनिश्चतुश्चैकशः॥९॥ री०-तंत्रेत्यनेन सम्बन्धं सूचयति, तयोर्जीवाजीवाधिकरणयोरनन्तरसूत्रप्रस्तुतमोर्जीवाधिकरणं तावदुच्यते, आचं संरम्भसमारम्भेत्यादि सूत्रम् // भा०-भाद्यमिति सूत्रक्रमप्रामाण्याज्जीवाधिकरणमाह / तत् समामतमा त्रिविधम् / संरम्भः 1 समारम्भः 2 आरम्भः 3 इति / भेदाभेदाः / एतत् पुनरेकशः कायवाश्मनोयोगविशेषात् त्रिविर्ष भवति / तद्यथा-कायसंरम्भः वाक्संरम्भः मनःसंरम्भः; कायसमा. समाषाक्समारम्भः मनःसमारम्भः; कायारम्भः वागारम्भः मनआरम्भ इति। .. री०-आदौ भवमाद्यम् / इतिशब्दः शब्दपदार्थकः / किंकृतं पुनराधत्वं किंवा बदायमित्याह-सत्रक्रमप्रामाण्याजीवाधिकरणमाह / सूत्रक्रमः-सूत्रानुपूर्वी सूत्रसभिवेश: तस्त्रामाण्यादाघम् / किं तत् ? जीवाधिकरणमित्याह सूत्रकारः। तत् जीवाधिकरणं समा सतः-संक्षेपतः त्रिविधं-त्रिप्रकारम्। प्रकारत्रयप्रदर्शनायाह-संरम्मा संरम्मादीनां व्याख्या समारम्भ आरम्भ इति / तत्र प्राणातिपातादिसंकल्पावेशः संरम्मः / तत्साधनसनिपातजनितपरितापनादिलक्षणः समारम्भः / प्राणातिपावादिक्रियानिवृत्तिरारम्भः / एतदिति जीवाधिकरणं परामृशति / पुनःशब्दः क्रियाव्यात. स्पधः / सकृद् मित्रं संरम्भादिमेदेन जीवाधिकरणं मिद्यते / एकश इत्येकैकम् / संरम्माविकरणादि कायवाङ्मनोयोगावशेषात् त्रिविधं भवति / कायादयः प्राय व्याख्यातस्वरूपाः / कायसंरम्माधिकरणं वाक्संरम्भाधिकरणम्, एवं समारम्भारम्भयोरपि कायादिभेदेन पवैविध्यं वाच्यम् / योगभेदेन विकल्प्य संरम्भादीनधुना क्रियाद्वारेण योगान् विकल्पयति भा०—तदप्येकशः कृतकारितानुमतविशेषात् त्रिविधं भवति / तद्यथाकृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसंरम्भः; कृतवाक्संरम्भः कारितवाक्संरम्भः अनुमतवाक्संरम्भः; कृतमनःसंरम्भः कारितमनःसंरम्म: 1 मति-' इस्पपि पाठः।