________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 6 प्रधिकरणस्य वैविध्यम् सूत्रम्--अधिकरणं जीवाजीवाः // 6-8 // टी--अथवा यस्मिन् सति त्रिविधास्रवप्रवृत्तिस्तदधिकरणमनिर्धारितभेदम्, अतस्तद्देदनिर्दिधारयिपयेदमाचष्टे-अधिकरणं जीवाजीवाः // साम्परायिककर्मबन्धः प्रस्तुतस्तस्य विषय आस्रवोऽधिकरणम् / तीवादीनां जीवाजीवविषयत्वात्, जीवानजीवान् वा विषयीकृत्य सत्त्वाः प्रवर्तन्ते तीव्रादिभावेन / ते च जीवा अजीवा वा तीवादिभावेन भवितुः परिणन्तुरात्मनो विषयमुपेताः साम्परायिककर्मबन्धहेतवो भवन्तीति दुर्गतिप्रस्थाननिमित्तत्वादधिकरणशब्दवाच्याः / ननु चाधिकरणिकी क्रिया प्रागेवंविधैवोक्ता, किमर्थं पुनरधिकरणमुच्यते / चरितार्थत्वादन्यतरोपदेश एव ज्यायानिति, अत्रोच्यते / पूर्वत्र क्रियासहायद्रव्यादानमाअविवक्षया कीर्तितमाधिकरणिक्यम् , इह पुनरास्रवोत्कर्षापकर्षोपादानसामर्थ्यादनभिहितविशेपकृत्यार्थमिदमुच्यते-जीवाजीवाः / इतरेतरयोगद्वन्द्वः। द्विवचनप्रसङ्ग इति चेत् तन्न / व्यक्त्या पयोयभेदस्य विवक्षितत्वादिति, जीवाजीवाधिकरणमित्यस्तु सूत्रे लघुत्वादित्युच्यते जीवाजीवावेवाधिकरणमिति समानाधिकरणकल्पस्येत्याशङ्कायां जीवाजीवद्रव्यमात्रसम्प्रतीतेरास्त्रवविशेषाभावः स्यात् / आस्रवस्य हि क्रियालक्षणस्य जीवाः कारणं-निमित्तमिष्यन्ते // स चैवं सति न सिध्यतीति पुरातन एव पाठः साधीयान् / तस्मादास्रवस्यात्मपरिणामस्य प्रयोगलक्षणस्य बाह्यश्चेतनोऽचेतनो वा पदार्थ उत्पत्ती निमित्तमिति हिंसादिपरिणामो जीवाधिकरणोजीवाधिकरणश्चेत्येनमेवार्थ भाष्येण स्फुटयति भा०-अधिकरणं द्विविधम्-द्रव्याधिकरणं भावाधिकरणं च / तत्र द्रव्याधिकरणं छेदनभेदनादि / शस्त्रं च दशविधम् / भावाधिकरणमष्टोत्तरशतविधम् / एतदुभयं जीवाधिकरणमजीवाधिकरणं च // 8 // टी-अधिकरणं द्विविधमित्यादि भाष्यम् / दर्गत्यधिकारादधिकरणम् / तच्चै(क)कशो द्विप्रकार, जीवविषयं जीवा( द्रव्या )धिकरणं भावाधिकरणं च। अजीवविषयमपि द्रव्याधिकरणं भावाधिकरणं च / समुच्चयार्थश्चशब्दः / द्रव्यमेवाधिकरणं द्रव्याधिकरणम् / एवं भावाधिकरणमपि / तत्र द्रव्याधिकरणं छेदनभेदनादि / शस्त्रं च दशविधम् / तत्रेति तयोर्द्रव्यभावाधिकरणयोर्द्रव्याधिकरणं तावदुच्यते / छिद्यते येन परशुवासीव्यधनादिना तत् छेदनम् / भिद्यते येन मुद्गरकोणकादिना तद् भेदनम् / आदिग्रहणात् त्रोटनविशसनोद्वन्धनयन्त्राभिघातादि वक्ष्यमाणं निवर्तनादिसूत्रे / / ननु चादिग्रहणादेव नानाविधशस्त्रान्तर्भावोऽपि द्रव्यरूपत्वात् किमर्थ भेदेनोपादानं शस्त्रस्येति ? / उच्यते-संख्याविशेषनिर्धारणार्थ दशैव प्रकाराः शस्त्रस्येति / चशब्दोऽवधारणार्थः। द्रव्यशस्त्रं दशविधमेव परश्वधदहन विषलवनस्नेहक्षाराम्लानि अनुपयुक्तस्य च मनोवाक्कायास्त्रयः / एतेन द्रव्याधिकरणेन जीवाजीवौ विषयीकृत्य साम्परायिकं कर्म बध्यते / तद्यथा-पाणिपादशिरोधरादीनां परश्वादिना छेदः / अमिना दहन 1 करणतायां कस्येत्याशक्कायो ' इति प्रतिभाति / 2 'श्वदिदहन. ' इति क-पाठः। .