________________ सूत्र 71 स्वोपज्ञमाष्य-टीकालङ्कृतम् आत्मनः शक्तिः सामर्थ्य महाप्राणता / तच्च वज्रर्षभनाराचसंहननीयापेक्षमेव त्रिपृष्ठादीनां संरब्धसिंहपाटनादिलक्षणम् / सिंहादीनां च मदजलावसेकपिच्छिलीकृतगण्डस्थलमुखमहावारणादिविदारणाभिव्यक्तं तस्य विशेषः-अतिशयस्तस्माद् वीर्यविशेषात् कर्मबन्धविशेषः / अत्राप्यधिमात्रादिभेदप्ररूपणा पूर्ववत् कायो। मन्दप्राणस्य तु कृच्छेण धृतोऽपि न तादृगुत्कर्षविशेषो भवति यादृयो महाप्राणस्य, अतो वीर्यातिशयः कर्मबन्धनिमित्तमस्तीति / अधिक्रियते येनात्मा दुर्गतिप्रस्थानं प्रत्यधिकरणं तनिवर्तनासंयोजनादिभेदं वक्ष्यते / तविशेषाच तदतिशयात् कर्मबन्धातिशयः / प्रतिदिवसमेव हि निघृणमनसो निर्भयाः प्राणिप्राणव्यापत्तये मृषास्तेयादिकृतवक्रश्रुतीः सृजन्ति ते चाधिकरणविशेषाः क्लेशोपादानं प्रति प्रकर्षवर्तिनः कूटगलयन्त्रपात्रपाशदेय इत्यादिकादधिकरणविशेषाच विशेषो भवति बन्धस्येति / अज्ञातभावाच संचेतयतां भवति कर्मबन्धस्तथा सप्तमेऽध्याये वक्ष्यामः // लघुरित्यादिना तीव्रान्मन्दस्यापका दर्शयति / तथा ज्ञातभावादज्ञातभावस्य वीर्यातिशयान्मध्यमन्दवीर्ययोरधिकरणातिशयाच मध्यमन्दाधिकरणविशेषयोरपकर्षोऽवगन्तव्यः, तथा मध्यमन्दप्रतिद्वन्द्विनः प्रकृष्टस्य प्रदर्शन तीव्रस्तीव्रतरस्तीव्रतम इति / तीव्रमन्दग्रहणात मध्यपतितस्य मध्यमभावस्यापि ग्रहणम् / मध्यमो मध्यमतरो मध्यमतमः / एते च तीव्रमध्यमन्दाः प्रकर्षापकर्षवर्तित्वादधिमात्रादिभेदेन भित्त्वा व्याख्येयाः / इतिशब्दः समस्तसाम्परायिककर्महेतुसङ्ग्रहार्थः। तद्विशेषाच्च बन्धविशेषो भवतीति तदित्यनेन तीव्रमध्यमन्दाः परामृश्यन्ते / तीव्रादीनां विशेषस्तद्विशेषस्तस्मात् तद्विशेषाद् बन्धविशेष इत्यतः सतीष्वपीन्द्रियकषायावतक्रियासु तीव्रमावाद्यपेक्ष एव कर्मबन्धः सिद्धः // 7 // भा०-अत्राह-तीव्रमन्दादयो भावा लोकप्रतीताः। वीर्य च जीवस्य क्षायोपशमिकः क्षायिको वा भाव इत्युक्तं (अ० 2, सू० 4-5) / अथाधिकरणं किमिति 1 / अत्रोच्यते टी-अत्राहेत्यादिः सम्बन्धग्रन्थः / अत्रेत्यतिक्रान्तसूत्रव्याख्यानावसाने परः प्रश्नयत्यजानानः--तीव्रमन्दायो भावाः / आदिग्रहणात् ज्ञाताज्ञातभावपरिग्रहः। एते लोकप्रतीताः। लोक्यत इति लोकः-प्रेक्षापूर्वकारी शिष्टजनः, सामान्येन वा रथ्यापुरुषादिलोकस्तस्य प्रतीतास्तीवादयः प्रकर्षापकर्षादिलक्षणा इति, नैषां लक्षणं प्रष्टव्यं वीर्य चात्मनो वीर्यान्तरायकर्मक्षयोपशमप्रयोजनः क्षयप्रयोजनो वा भावः--आत्मनो भवनं परिणामविशेषः, शक्तिलक्षण इत्युक्तंनिश्चितम् / अथाधिकरणं किं तीवादिगोचरत्वाद् विप्रतिपत्तेश्चाधिकरणविषय एव प्रश्नः, प्रथमतरं वाऽतिसंक्षिप्तमुक्तमधिकरणम् , अधुना तद्विस्तरार्थिना तीव्रादिभावपरिज्ञानानन्तरमधिकरणं पृच्छयते--किंस्वरूपमधिकरणमिति / अत्रोच्यते इत्याहाचार्यः / अत्र-अधिकरणस्वरूपप्रश्न अभिधीयते तेषां तीव्रादीनां [द्विविधा /