SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 6 अनन्तरसूत्रोपन्यस्तेन्द्रियादिसम्बन्धमाचष्टे / कियन्तः पुनस्ते इति सङ्ख्यया निश्चयार्थमाहएकोनचत्वारिंशदिति / स्वशब्देनैवोक्तत्वा बहुत्वस्य न पुनर्बहुवचनं सङ्ख्याशब्दात् / ईर्यापथव्यवच्छेदायाह-साम्परायिकास्रवाणामिति / सम्परायः प्रयोजनं कमैव नान्यत् तस्यासवाः-प्रवेशमार्गास्तेषां विशेपो भवतीति सम्बन्धनीयम् / कुत इत्याह-तीव्रभावादित्यादि / तीवादिभ्यः कृतद्वन्द्वेभ्यः / पञ्चमी हेतौ / भावोऽप्यधिकरणवत् पृथग् व्याख्येय इत्याशङ्कायां प्रत्येकमभिसम्बन्धं दर्शयति-तीवभावात् मन्दभावात् ज्ञातभावादज्ञातभावादिति / तीव्रः-प्रकृष्टो भावः-परिणामस्तस्मात् तीवभावाद्धेतोः कर्मवन्धविशेषः, सातिशयश्च तीव्रपरिणामः, तद्यथा-तीवस्तीव्रतरस्तीव्रतमः / कारणभेदश्च कार्यभेदानुविधायी / कार्यभेदोऽपि हि कारणभेदमवगमयतीति, अतः परिणाममात्रापेक्षया आत्मा कर्म बध्नाति / तथा मन्दस्तीवः स्वल्पो भावस्तस्माच कर्मभेदोऽवश्यंभावी,स्वल्प एवान्तरः परिणामो यदा मृर्भवति तदा कर्मबन्धोऽपि स्वल्पपरिणामापेक्षत्वान्मृदुरेव भवति, न जातुचित् तीवभावतुल्यो बन्धः / यथा सिंहस्य हन्तुर्गोघातिनश्च समानेऽपि प्राणातिपाते निवृत्तेऽपि गणितजधनाभिष्टश्रवणोद्भूतपरितोषनिर्भरचेतसः केसरिव्यापादिनः शौर्याभिनिवेशान् प्रदीपिततीवभावस्य बहुलं भवति कर्मबन्धः / स चापि तीव्रो भावः कदाचिदधिमात्रः कदाचिदधिमात्रमध्यः कदाचिदधिमात्रमृदुः कदाचिन्मध्याधिमात्रः कदाचिन्मध्यमः कदाचिन्मध्यमृदुः कदाचिन्मृद्वधिमात्रः कदाचिन्मृदुमध्यः कदाचिन्मृदुरिति नानाध्यवसायापेक्षत्वात् / इतरस्य तु सर्वजननिन्द्यस्य धिक्काराग्रुपघातकवचनाकर्णनापारचिन्तोवृत्तस्य कृतेऽपि कर्मणि मन्दपरिणतेः स्वल्पः कर्मबन्धो भवति / तथा ज्ञातभावादज्ञातभावाचेति / ज्ञातस्य भावो ज्ञातभावः। ज्ञातमस्यास्तीति अर्शआदिपाठादेव ज्ञात आत्मा, ज्ञानाद् उपयुक्तस्य तस्य यो भावः-परिणामः स ज्ञातभावः--अभिसन्धाय प्राणातिपातादौ प्रवृत्तिः, अपर एतद्विपरीतः, स खल्वज्ञातभावोऽनभिसन्धाय प्राणातिपातकारीत्यत्रापि पूर्ववदेव कर्मबन्धविशेषो द्रष्टव्यः / यो हि मृगमेवाभिसन्धाय न्यापादयामीति शिलीमुखक्षेपमाचरति, यश्च स्थाणुं विध्यामीति कृताभिसंधि पत्रिणममुश्चद्विनिपातितश्चान्तरालवर्ती तेन पत्रिणा मृगः कपोतो वा, तुल्यप्राणातिपातक्रिययोरप्यनयोनिमित्तविशेषाद् बन्ध. विशेणेऽवसेयः, प्राच्यस्य प्रकृष्टो वन्धः, पाश्चात्त्यस्यानभिसन्धेः कपायादिप्रमादवशवर्तिनः पूर्वकादल्पः कर्मबन्धः, यस्मान्न विना रागात् क्षेपः शरस्य संभवति, रागच प्रमादः / यत एवमाह-अज्ञानसंशयमिथ्याज्ञानरागद्वेपस्मृत्यनवस्थानधर्मानादरयोगदुष्प्रणिधानमित्यष्टप्रकारः प्रमादः प्रकृष्टकपायलेश्यावलाधानाज्ञानप्रभवः पौरुषेयपरिणामसमुत्थानः कटुविपाको नरकपाताहितसंस्कारः तीवादिसातिशयः मध्यकपायलेश्योदयवलाधानो मध्यममध्यतरा. दिभेदः प्रतनुकपायलेश्यापरिणतिप्रमादबलाधिष्ठानवासनावासित्वान्मन्दमन्दतररादिभेदः / तथा वीर्यविशेषादधिकरणविशेषाचेति / वीर्यान्तरापकर्मक्षयोपशमजा लब्धिः वीर्यम्-- १.चिन्तोद्धतस्य' इति पाठः।
SR No.004408
Book TitleTattvarthadhigam Sutra Part 02
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy