________________ सूत्र ] स्वोपनमाम्य टीकालङ्कृतम् भवति सम्पात्यसत्त्वानाम् // अनाभोगक्रिया अप्रत्यवेक्षिताप्रमार्जिते देशे शरीरोपकरणनिक्षे'पा स्वहस्तक्रिया अभिमानारूषितचेतसाऽन्यपुरुषप्रयत्ननिवृत्या या स्वहस्तेन क्रियते।चिरकालप्रवृसपरदेशिनि पापार्थे भावतो यदनुज्ञानं सा निसर्गक्रिया पराचरिताप्रकाशनीयसाक्यप्रकाशीकरणं विदारणक्रिया / भाषाद्वयाभिज्ञःपुरुषो यथैकं विचारयति अर्हत्प्रणीताज्ञोल्लङ्घनेन स्वमनीषयाजीवितादिपदार्थप्ररूपणं (वा)॥स्वयं नयनक्रिया अन्यैर्वाऽऽनायनं स्वच्छन्दतो नयनक्रिया ।अनवकाङ्क्षाक्रिया द्विधा-स्वपरभेदतः। तत्र स्वानवकाङ्क्षा जिनोक्तेषु कर्तव्यविधिषु प्रमादवशवर्तितानादरः, तथा चानाद्रियमाणः परमपि नावकाङ्क्षतीति परानवकाङ्क्षाक्रियेति॥ भूम्यादिकायोपघातलक्षणा शुष्कतृणादिच्छेदलेखनादिका वाऽप्यारम्भक्रिया स्वपरभेदतः॥ बहूपायार्जनरक्षणमूछ लक्षणा परिग्रहक्रिया // मायाक्रिया तु मोक्षसाधनेषु ज्ञानादिषु मायाप्रधानस्य प्रवृत्तिः विरुद्धफललिप्सया मिथ्यादर्शनमार्गेण सन्ततप्रयाणमन्यं साधयामीत्यनुमोदमानस्य मिथ्यादर्शनक्रिया // संयमविघातिनः कषायाधरीन् प्रत्याख्येयान् न प्रत्याचष्ट इत्यप्रत्याख्यानक्रिया / इतिशब्दः साम्परायिकक्रियेयत्तावधारणार्थः / एवमेताः क्रियाः पञ्चविंशतिः स्थूलस्थूलाकारा विस्तरभीत्याऽव्याख्याताः साम्परायिककर्महेतवः, काश्चित् परस्परतः किश्चिद्भेदभाजः काश्चिद् विविक्तार्थाः सक्षेपतः कायवाङ्मनोदुश्चरितलक्षणाः सूक्ष्मसूक्ष्मतरभूरिभेदा अपि भाष्यकारेण प्रदर्शिताः समस्तकायादिदुश्चरितकलापसङ्ग्रहाय, प्रवचनाभिज्ञेन तु युक्त्यागमाभ्यां विशेष्य व्याख्येया इति // एतत् पुनरिन्द्रियादिनिमित्तं साम्परायिकं कर्म बनता जीवानां किं सर्वेषां समानं भवति, उत सतीन्द्रियादिमत्त्वे साम्परायिककर्मबन्धमाजां परस्परेण विशेषः / अस्ति विशेषः च सपरिणामजनितः / परिणामोऽनेकरूपस्तद्भेदात् कर्मबन्धभेद इत्याहसूत्रम्-तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः॥६-७॥ ___टी.-आशयपरिणामानुरूप्येण कर्तृणां बन्धमात्राः सत्स्विन्द्रियादिषु निमित्तेषु प्रतिविशिष्टा भवन्ति नियमतः, न तुल्यास्तद्विपरीता वा / कदाचित् तुल्यपरिणामानां तुलगा आप विषमपरिणामानामतुल्याश्चेत्येवमर्थ भाष्येण प्रपञ्चयति भा०—एषामकोनचत्वारिंशत्साम्परायिका(स्रवा)पां तीव्रबन्धविशेषाणां हेतवः भावात् मन्दभावात् ज्ञातभावादज्ञातभावाद वीर्यविशेषादधि करणविशेषाच्च विशेषो भवति-लघुर्लघुतरो लघुतमस्तीवस्ती. प्रतरस्तीव्रतम इति / तद्विशेषाच बन्धविशेषो भवति // 7 // टी.-एषामेकोनचत्वारिंशत्साम्परायिकासवाणामित्यादि भाष्यम् / एषामिति "चितारयति' इति क-पाठः; 'विप्रतारयति' इति प्रतिभाति / 2 -- साम्परायिकानामेषा• ' इति घ-पाठः /