________________ 12 तत्वार्थाधिगमसूत्रम् [ अध्यायः 6 स्त्रक्रिया तत्त्वार्थाऽश्रद्धानलक्षणा। सा त्रिविधा-अभिगृहीता 1 अनभिगृहीतारसंदेहतः 3 // तत्राभिगृहीतात्रयाणां त्रिपष्टयधिकानां प्रवादिशतानाम् , अनभिगृहीताऽनभ्युपगतदेवताविशेषाणां तत्त्वार्थश्रद्धानं, सन्दिग्धं मिथ्यात्वं प्रवचनोक्तमक्षरमर्थ पादं वा स्तोकमप्यश्रद्दधानस्य भावतो यद् भवति // आत्माधिष्ठितकायादिव्यापारः प्रयोगः, तत्र योगत्रयकृता (तं) पुद्गलानां ग्रहणं प्रयोगक्रिया धावनवलनादिः:कायव्यापारो वा, हिंस्रपरुषानृतादिवाग्व्यापारो वा, अभिद्रोहामिमानेादिव्यापारो वा प्रयोगक्रिया // अपूर्वापूर्वविरतिप्रत्यामुख्यमुत्पद्यते यत् तपस्विनः सा समादानक्रिया। अन्ये व्याचक्षते-द्विविधा समादानक्रिया, समादीयते येन विषयस्तत् समादानम् -इन्द्रियं तस्य ( सर्वोपघातकारि ) देशोपघातकारि वा समादानक्रिया // ईर्यापथकर्मणो याति(हि ? )निमित्तभूता बध्यमानवेद्यमानस्य सेयोपथक्रिया / अत्र च काश्चित् साम्परायिककर्मण आस्रवः, काविच न // कायक्रिया द्विविधाः, प्रदुष्टस्य मिथ्यादृष्टेरुद्यमो यः पराभिभवात्मको वाङ्मनसनिरपेक्षः सा तु परतः कायक्रिया, प्रमत्तसंयतस्यानेककर्तव्यतासु बहुप्रकारा दुष्प्रयोगकायक्रिया // अधिक्रियते येनात्मा दुर्गतिप्रस्थानं प्रति तदधिकरणं-परोपघातिकूटगलपाशादिद्रव्यजातं तद्विषयाऽधिकरणक्रिया / सा द्विधानिवर्तने संयोजने च / तत्र मूलोत्तरगुणभेदाद् द्विधा निवर्तने मूलगुणाधिकरणक्रिया पश्चानामौदारिकादिशरीराणां निर्वृत्तिः, उत्तरगुणनिवर्तना पाणिपादाद्यवयवानां, अथवा असि-शक्ति-तोमरादीनां मूलगुणनिर्वर्तना, उत्तरगुणनिर्वर्तना तेषामेव पानोज्ज्वलीकरणपरिचारादिका / संयोजनाधिकरणक्रिया तु विषगरहलाकुटधनुर्यन्त्रादीनाम् // प्रादोषिकी द्विविधा-जीवाजीववैविध्यात् / जीवप्रादोषिकी तावत् पुत्रकलत्रादिस्वपरजनविषया / अजीवप्रादोषिकी तु क्रोधोत्पत्तिनिमित्तभूतकण्टकशकरादिविषया // परितापिका तु द्विविधापरितापप्रधाना स्वपरपरितापप्रधाना-स्वपरपरितापजननी / तत्र स्वदेहपरितापकारिणी पुत्रकलत्रादिवियोगदुःखभाराद्यतिपीडितस्यात्मनस्ताडनशिरस्स्फोटनादिलक्षणा / परपरितापकारिणी पुत्रशिष्यकलत्रादिताडनम् / / प्राणातिपातक्रियाऽपि द्विविधा-स्वपरव्यापादनभेदात् / अत्र स्वप्राणातिपातजननी गिरिशिखरप्रपातज्वलनप्रवेशजलप्रवेशास्त्रपाटनादिका / परप्राणातिपातजननी तु मोहलोभक्रोधाविष्टा प्राणव्यपरोपणलक्षणा क्रियते / अत्रापि विचिन्त्य पञ्चके साम्परायिककर्मण आस्रवो वक्तव्यः // दर्शनक्रिया द्विधा-जीवाजीवविषयत्वात् / तत्र प्रमादिनो नृपनिर्याणप्रवेशस्कन्धावारसन्निवेशनटनर्तकमल्लमेषवृपयुद्धादिष्वालोकनादरो यः सा जीवविषया दृशिक्रिया। देवकुलसभाप्रपोदकाशयत्रपुस्ताद्यालोकनलक्षणा रागाईचेतसोऽजीवविषया दर्शनक्रियाः // स्पर्शनक्रिया द्विविधा-जीवाजीवभेदात् / तत्र जीवस्पर्शनक्रिया योषित्पुरुपनपुंसकाङ्गस्पर्शनलक्षणा रागद्वेषमोहभाजः / अजीवस्पर्शनक्रिया मृगरोमकुतवपदृशाटकनील्युपधानादिविषया // प्रत्ययक्रिया तु यदपूर्वस्य पापादानकारिणोऽधिकरणस्योत्प्रेक्ष्य स्वस्वबुद्ध्या निप्पादनम् / समन्तानुपातक्रिया स्त्रीपुरुषनपुंसकपशुसम्पातदेशे उपनीयवस्तुत्यागः / प्रमत्तसंयतानां वा भक्तपानादिकेऽनाच्छादितेऽवश्यत्याज्ये समन्तादनुपातो