________________ सूत्र 13 ].. स्वोपज्ञभाष्य-टीकालङ्कृतम् 25 .टी.-दुःखं शोकस्ताप इत्यादि / तत्र दुःखयतीति दुःखं वैधलक्षणं विरोधिद्रव्या न्तरोपनिपातादभिमत वियोगानिष्टश्रवणादसद्वेद्योदयापन: पीडालक्षणः दुःखादीनां लक्षणानि परिणाम आत्मनो दुःखमित्यर्थः / अनुग्राहकस्नेहादिव्यवच्छेदे वैलव्य विशेषः शोकः / अभिमतद्रव्यवियोगादिपारिभाब्यादाविलान्तःकरणस्य तीवानुशयपरिणामस्तापः / परितापसंयुक्ताश्रुनिपाताङ्गविकारप्रचुरविलापादिव्यक्तम् आक्रन्दनम् / प्राणिप्राणवियोजनं बंधः कशायभिघातश्च संक्लेशप्रवणः / स्वपरानुग्रहनाथनमनुकम्पासायं परिदेवनम् / शोकादयस्तु सर्वे दुःखजातीया एव, तथापि पृथगभिधानमकारि सूत्रकारेण, तद्विषयासंख्येयत्वेऽपि कतिपयविशेषसम्बन्धेन तज्जात्याख्यानात् / इतिशब्द आयर्थे / आदिग्रहणाच निरनुकम्पत्वावाहनविहेठनदमनबन्धाङ्गोपाङ्गवेदनासंक्लेशजननतीव्राशुभपरिणामप्राणिवधादयः परिगृह्यन्ते / आत्मा च परश्चोभयं च तेषु स्थितानि दुःखादीन्यास्मपरोभयस्थानि / तद् विवृणोति-आत्मस्थानीति / स्वात्मनि वर्तमानानि यथोक्तलक्षणानि दुःखादीनि सर्वज्ञप्रणीतागमनिरपेक्षाणि असद्यस्य कर्मण आस्रवा भवन्ति / विदेश्वेतनकर्मणो ग्रहणम् / असदिति वेद्यते यत् तदेतदसवेद्यम्, अप्रशस्तत्वात् / तथा परस्य क्रियमाणानि स्वात्मव्यतिरिक्तस्य चेतनावतः पदार्थस्योत्पाद्यमानानि / एतान्येव दुःखादीनि स्वात्मपरयोरपि क्रियमाणान्यसवेद्यस्य कर्मण आस्रवा भवन्तीति पूर्व स्वात्मन एव दुःखाघुत्पादयन्ति शस्त्रपाटना-ऽग्निप्रवेश-भृगुप्रपातादिना, परस्यैव वा शस्त्रादिना दुःखाद्युत्यादयन्तिउभयस्थानि तु अधमर्णसमवाये सत्युत्तमर्णस्य तनिरोधपरस्य भुजिक्रियानिवृत्तावुभयोः क्षुत्छत एव दुःखादिः सम्भवति // 12 // एवमसद्वेद्यास्रवान् निरूप्य सद्वेद्यास्रवनिरूपणार्थमाह.. भा०- सर्वभूतानुकम्पा अगारिष्वनगारिषु च व्रतिष्वनुकम्पाविशेषो दानं सरागसंयमः संयमासंयमः अकामनिर्जरा बालतपोयोगः क्षान्तिः शौचमिति सदेद्यस्यास्रवा भवन्ति // 13 // टी.-सर्वभूतानुकम्पेत्यादि द्वितीयसूत्रभाष्यम् / सर्वाणि च तानि भूतानि चेति . सर्वभूतानि, भवन्ति अभूवन भविष्यन्ति च (इति भूतानि) पृथिव्यप्तेजोभाष्यगतशब्दानां वायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाख्यानि तेषु / अनुकम्पा दया धृणेत्य. नर्थान्तरम् / अगारं-गेहं खण्डणीपेषणीचुल्लयुदकुम्भमार्जनीव्यापार व्याख्या १'बाधालक्षणं ' इति ङ-पाठः / 2 'दयापेक्षः' इति ङ-पाठः। 3 'बन्धः' इति उ-पाठः / 5 'चेतन माचरतः' इति हु-पाठः / ५'तपो योगः' इत्यपि संभवति / .. विचार्यताम्-"खण्डनी पेषणी चुल्ली, जलकुम्भः प्रमार्जनी। पश्च सूना गृहस्थस्य, तेन स्वर्ग न गच्छति // 1 // "