________________ 328 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 10 भास्वामीति विजित्य नाम जगृहे यस्तेजसां सम्पदा ___ भास्वन्तं भवनिर्जयोद्यतमतिर्विद्वज्जनाग्रेसरः ॥५॥-शार्दूल. क्षमया युक्तोऽतुलया, समस्तशाखार्थविन्महाश्रमणः। .. गच्छाधिपगुणयोगाद् गुणाधिपत्यं चकारार्थ्यम् ॥६॥-आर्या तत्पादरजोवयवः, स्वल्पागमशेमुषीकबहुजाड्यः। तत्त्वार्थशास्त्रटीका-मिमां व्यधात् सिद्धसेनगणिः // 7 // " . अष्टादशसहस्राणि, द्वे शते च तथा परे। अशीतिरधिका द्वाभ्यां, टीकायाः श्लोकसंग्रहः ॥८॥-अनु० मूलसूत्रप्रमाणं हि, द्विशतं किश्चिदूनकम् / भाष्यश्लोकस्य मानं च, द्वाविंशतिशतानि वै // 9 // " .. . इति श्रीतत्त्वार्थाधिगमटीका समाप्ता // अङ्कतोऽपि श्लोकसंख्या 20680 / 'माधा' इति ग-पाठः। 2 अतःपर केवलमयमेव उल्लेखो ज-प्रती-'प्रन्यामन्च 18281 सब संक्या शुभं भवतु / इति श्रीतत्त्वार्थटीका समाप्ता'।