________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् इदमुच्चैनांगरवा-चकेन सत्त्वानुकम्पया हब्धम्। ... तत्त्वार्थाधिगमाख्यं, स्पष्टमुमास्वातिना शास्त्रम् ॥५॥-आर्या यस्तत्त्वाधिगमाख्यं, ज्ञास्यति च करिष्यते च तत्रोक्तम् / सोऽव्याबाधं सौख्यं, प्राप्स्यत्यचिरेण परमार्थम् // 6 ॥-आर्या टी-सम्प्रदायाविच्छेदेनायातमहंछचनं सम्यगवधार्य शारीरैर्मानसैश्च दुःखैरात दुरागमैरैहिकसुखोपदेशप्रायैस्त्रयैः प्रभृतिभिः प्रमाणविघट्टनायामक्षमैविहतमतिम्-उपहतविज्ञानमवलोक्य लोकमुच्चै गरवाचकेनेति स्वशाखासूचकं तत्त्वार्थाधिगमाख्यं शास्र भव्पसरवानुकम्पया विरचितं स्फुटार्थमुमास्वातिनेति / तदेतच्छास्त्रं जीवादितस्वाधिगमार्य योऽवमोत्स्यते. सूत्रतोऽर्थतश्चानुष्ठास्यति तत्रोक्तं सोऽव्यायाधसुखलक्षणमनन्तमनुपर्म परमार्थ मोक्षमचिरेण प्राप्स्यतीति / इति श्रीतत्त्वार्थाधिगमेऽर्हत्प्रवचनसंग्रहे भाष्यानुसारिण्यां वृत्ती मोक्षस्वरूपनिरूपको दशमोऽध्यायः // 10 // // तत्समाप्तौ च समातेयं तत्त्वार्थटीका // आसीन दिन्नगणिः क्षमाश्रमणतां प्रापत् क्रमेणैव यो . . विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिभृशम् / घोढा शीलभरस्य सच्छ्रतनिधिर्मोक्षार्थिनामग्रणी ज्वालामलमुच्चकैर्निजतपस्तेजोभिरव्याहतम् // १॥-शार्दल. यत्र स्थितं प्रवचनं, पुस्तकनिरपेक्षमक्षतं विमलम् / शिष्यगणसम्प्रदेयं, जिनेन्द्रवक्त्राद् विनिष्कान्तम् ॥२॥-आर्या तस्याभूत् परवादिनिर्जयपटुः सैंहीं दधच्छ्रता नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागमः। शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद् _ भव्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि ॥३॥-शाईल. निर्धततमःसंहति-रखण्डमण्डलशशाङ्कसच्छाया। अद्यापि यस्य कीर्ति--भ्रमति दिगन्तानविश्रान्ता ॥४॥-आर्या शिप्यस्तस्य बभूव रोजि(ज? )कशिरोरत्नप्रभाजोलक व्यासनाच्छुरितस्फुरनखमणिप्रोद्भासिपादयः। 'मणी'ति ज-पाठः। 2 'पदः' इति कु पाठः / 3 'राजत' इति च-पाठः। 'जातक' इतिमाठः। 5 'सङ्गच्छरित०' इति च-पाठः /