________________ 326 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 संयमरणाजिरस्थः, क्लेशचमूः संविधूय भव्यात्मा / कर्मनृपरिपून हत्वा-ऽपवर्गराज्यश्रियं लभते ॥२॥-आर्या एवं कर्मोदयजै- वैः कर्मक्षयोपशमजैश्च / संसारमुवाचार्हन्, सिद्धिं कर्मक्षयादेव // 3 // " ज्ञानं सुमार्गदीपं, सम्यक्त्वं तु तदविप्रणाशाय / चारित्रमास्रवत्वं, क्षपयति कर्माणि तु तपोऽग्निः॥४॥" एतेन भवति सिद्धिः, सिद्धान्तचतुष्टयेन जिनवचने। न तु संवररहितस्य च, सा स्यान ज्ञानमात्रेण // 5 // " इत्येकान्तसमेक-द्वीपं विविधं झपमेकपातालम् / अष्टग्राहं द्विरयं, चतुरावत चतुःकूलम् // 6 // " त्रिमहावातंत्र्युदयं, षड्वेगं चतुरशीतिनियतोर्मिम् / संसारार्णवमात्मा, नावा चतुरङ्गयोत्तरति // 7 // " सम्पति वाचको निजाचार्यान्वयं द्विप्रकारमप्यावेदयतेभा०-वाचकमुख्यस्य शिव-श्रियः प्रकाशयशसः प्रशिष्येण। शिष्येण घोषनन्दि-क्षमाश्रमणस्यैकादशाङ्गविदः ।।१-गीतिः वाचनया च महावा--चकक्षमणमुण्डपाशिष्यस्य / / शिष्येण वाचकाचा-यमूलनाम्नः प्रथितकीर्तेः॥२॥ अर्थ न्यग्रोधिकाप्रसूते--न विहरता पुरवरे कुसुमनाम्नि / कौभीषणिना स्वातित-नयेन वात्सीसुतेनाध्यम् // 3 // " री०-तत्रायं प्रव्राजकान्वयः-शिवश्री म वाचकः पितामहः सङ्ग्रहकारस्य, तस्स शिष्यो घोषनन्दिक्षमणस्तस्यायं सङ्ग्रहकारः शिष्यः / सम्प्रति वाचनाचार्यान्वयो मुण्डपादों नाम महावाचकः क्षमणः सोऽस्य पितामहः सङ्ग्रहकारस्य / तस्य शिष्यो मूलनामा वाचकस्तस्यायं सङ्ग्रहकारः शिष्यः / सम्प्रत्यात्मीयजन्मान्वयस्थानमाचष्टे-न्यग्रोषिका नाम ग्रामस्तत्र जातेन पाटलिपुत्रे कुसुमपुरनानि विहरता / कौभीषणिनेति गोत्राज्ञानम्, स्वातितनयेनेति पितुराख्यानम्, वात्सीसुतेनेति गोत्रेण नाम्ना उमेति मातुराख्यानम् // भा०-अर्हद्वचनं सम्यग, गुरुक्रमेणागतं समवधार्य। ___ दुःखात च दुरागम--विहतमतिलोकमवलोक्य ॥४॥–आर्या 1 'मवाप्या' इति ज-पाठः / 2 'वाचकाचार्यान्वयो,' इति ग-पाठः। 2 'समुपधार्य' इति घ-पाहः /